________________ 3. 20 ] तादात्म्यविचारः। भेदेनेतरेतरव्यावृत्तिकृतेन भिन्नमिति अन्यत् साधनम् , अन्यत् साध्यम् / दूराद्धि शाखादिमानों वृक्ष इति निश्चीयते न शिंशपेति / अथ च स एव वृक्षः सैव शिशपा। तस्मादभिन्नमपि वस्तु निश्चयो भिन्नमादर्शयति व्यावृत्तिभेदेन / तस्मानिश्चयारूढरूपापेक्षया अन्यत् साधनम् , अन्यत् साध्यम् / अतो न प्रतिज्ञार्थंकदेशो हेतुः। वास्तवं च तादात्म्यमिति // कस्मात् पुनः साधनधर्ममात्रानुबन्ध्येव' साध्यः स्वभावो नान्य इत्याह तनिष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात् 2 // 16 // तनिष्पत्ताविति। यो हि यन्नानुबध्नाति स3 तनिष्पत्तावनिष्पन्नः। तस्य तन्निष्पत्तावनिष्पन्नस्य साधनस्वभावत्वमयुक्तम् / यतो निष्पत्त्यनिष्पत्ती भावाभावरूपे। भावाभावी च परस्परपरिहारेण स्थितौ / यदि च पूर्वनिष्पन्नस्य, अनिष्पन्नस्य चैक्यं भवेदेकस्यैवार्थस्य भावाभावौ स्यातां युगपत्। न च विरुद्धयोर्भावाभावयोरैक्यं युज्यते, विरुद्धधर्मसंसर्गात्मकत्वादेकत्वाभावस्य / / . किञ्च पश्चादुत्पद्यमानं पूर्वनिष्पन्नाभिन्नहेतुकम्। हेतुभेदपूर्वकश्च कार्यभेदः / ततो निष्प्रनानिष्पन्नयोविरुद्धधर्मसंसर्गात्मको भेदो भेदहेतुश्च कारणभेद इति कुत एकत्वम् ? तस्मात् साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावो नान्यः // मा भूत पश्चान्निष्पन्नः पूर्वजस्य स्वभावः। साध्यस्तु कस्मान्न भवतीत्याह व्यभिचारसंभवाच // 20 // 5 व्यभिचारेत्यादि / पूर्वजेन पश्चाग्निष्पन्नस्य व्यभिचारः परित्यागो यस्तस्य संभवाच्च ननु किमस्य सम्भवोऽस्ति यदुतकात्मन एवैका व्यावृत्तिनिश्चीयते नेतरेत्याह-दूरादिति / हिर्यस्मात् / अथ चेति निपातसमुदायः प्रतिपिपादयिषितपरमार्थद्योतकः / वृक्षः शिंशपेति चोपलक्षणमेतत् / - तस्मादित्यादिनोपसंहारः / वास्तवं वस्तुस्वरूपादागतमसमारोपितमित्यर्थः / तुशब्दार्थश्चकारः // यः साध्यधर्मो यं साधनधर्म नानुबध्नाति, नानुगच्छति, तस्मिन् सति नियमेन नोपतिष्ठत इति यावत् / कस्मात् तत्स्वभावत्वमयुक्तमित्याह-यत इति / भवतां भावाभावरूपे तथाऽपि किं तयोस्तत्स्वभावत्वमित्याह-भावेति। चो यस्मादर्थे / यदिच्छ (यदि चे)ति चशब्दो वक्तव्यान्तरसमुच्चये / / ' बन्धे च साध्य :-B . 2 तत्स्वभावात् C 3 स तनिष्पत्तावनिष्पन्नस्य साधन A 4 अयमेव भेदो भावानां विरुद्धधर्माध्यासः, कारणभेदश्च-टि० 5 'व्यभिचारेत्यादि'-नास्ति, -A. B. D. P. H. E. N.