________________ 162 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.16. प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः। पुनरनुमानकाले' साधनं साध्य नान्तरीयकं सामान्येन स्मर्तव्यम् / कृतकत्वं नामानित्य स्वभावमिति सामान्येन स्मृतमर्थ' पुनविशेषे योजयति-इदमपि कृतकत्वं शब्दे वर्तमानमनित्य स्वभावमेवेति / / ___ तत्र सामान्यस्मरणं लिङ्गज्ञानम् / विशिष्टस्य तु शब्दगतकृतकत्वस्याऽनित्य- . त्वस्वभावस्य स्मरणमनुमानज्ञानम् / तथा च सत्यविनाभावित्वज्ञानमेव परोक्षार्थप्रतिपादकत्वं नाम। तेन निश्चिततन्मात्रानुबन्धे साध्यधर्मे स्वभावहेतवः प्रयोक्तव्या नान्यत्रेत्युक्तम् // यद्येवं सम्बन्धो निश्चेतव्यः साध्यस्य साधनेन सह। साधनधर्ममात्रानुबन्धस्तु साध्यस्य कस्मानिश्चितो मृग्यत इत्याह 1 तस्यैव तत्स्वभावत्वात् // 16 // तस्यैवेति सिद्धसाधनधर्ममात्रानुबन्धस्य। तत्स्वभावत्वादिति साधनधर्मस्वभावत्वात् / यो हि साध्यधर्मः साधनधर्ममात्रानुबन्धवान् स एव तस्य साधनधर्मस्य स्वभावो नान्यः / / भवतु ईदृश एव स्वभावः / स्वभाव एव तु साध्ये कस्माद्धेतुप्रयोगः ? . स्वभावस्य च 1 हेतुत्वात् // 17 // स्वभावस्य च " हेतुत्वात् / स्वभाव एव१२ इह हेतुः प्रकान्तः। तस्मात् स एव साध्यः कर्तव्यः यः साधनस्य स्वभावः स्यात् / साधनधर्ममात्रानुबन्धवांश्च / स्वभावो नान्यः॥ यदि साध्यधर्मः साधनस्य स्वभावः १४स्यात् प्रतिज्ञार्थंकदेशस्तहि हेतुः स्यादित्याह वस्तुतस्तयोस्तादात्म्यम् / 5 // 18 // वस्तुत इति / वस्तुतः परमार्थतः साध्यसाधनयोस्तादात्म्यम् / समारोपितस्तु साध्यसाधनभेद:१६। साध्यसाधनभावो हि निश्चयारूढे रूपे। निश्चयारूढं च रूपं समारोपितेन षानवच्छेदेन तदात्मताप्रतीतिः प्रवृत्त्यङ्गमियमस्मादेव लिङ्गादिति किमवद्यम् / एवं सत्त्वहेतावपि द्रष्टव्यम् / एतच्चोक्तमपि स्वार्थानुमानेऽधिकामिधानार्थं पुनरुक्तमिहेति द्रष्टव्यम् / / प्रागनुमानात्-टि. 2 ०कालेन साधनं-A.B.P.H.E. 3 साध्यानन्तरीयकं A.B.P.H.E. 4 ०त्यत्वस्व०A.B.P.H:E.N. 5 स्मृतमय-B 6 ०त्यत्वस्व.C 7 लिङ्गनिश्चायकं ज्ञानम्-टि० 8 कृतकस्या०। 9 मानं ज्ञानं-C 10 तस्यैव-इति नास्ति-P. H 11 ०स्य हेतु० C 12 स्वभाव एव हेतु-B. स्वभाव इह A.P.H.N. 13 0न्धश्च स्व. A.P.E.H.N. 14 स्वभावः प्रति. A.B.D.P.E.H.N त्म्यात् B.D.P.H.E.N 16 साधनयोर्भेदः A.P.H.E.N