________________ 3.15.] - स्वभावहेतोः प्रयोगाः। साधनधर्ममात्रम् / मात्रशब्देनाधिकस्यापेक्षणीयस्य निरासः। तस्यानुबन्धोऽनुगमनमन्वयः / सिद्धः साधनधर्ममात्रानुबन्धो यस्य स तथोक्तः। केन सिद्ध इत्याह-यथास्वं प्रमाणरिति / यस्य साध्यधर्मस्य यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः। स्वभावहेतूनां च बहभेदत्वात् संबन्धसाधनान्यपि प्रमाणानि बहूनीति प्रमाणैरिति बहुवचननिर्देशः / गमयितव्यत्वात् साध्यः, पराधितत्वाच्च धर्मः साध्यधर्मः / . तवयं परमार्थः-न हेतुः प्रदीपवद् योग्यतया गमकोऽपि तु नान्तरीयकतया विनिश्चितः। साध्याविनाभावित्वनिश्चयनमेव हि हेतोः साध्यप्रतिपादनव्यापारो नान्यः कश्चित् / व्यामुह्य 'नायं स्वभावः' इति साधनेऽपि व्यामुह्येत / स व्यामोहो मा भूदित्येतदर्थं त्रिविधः स्वभावहेतुरुक्तः / . अथेति सम्बोधने / सिद्धो निश्चित: सम्बन्धस्तादात्म्यलक्षणो यस्य तस्मिन् / यस्य साध्यधर्मस्य यवात्मीयमिति येन प्रमाणेन यस्य साध्यस्य साधनव्यापकत्वं निश्चीयते / तदेव तस्येत्यभिप्रायेणोक्तम् / व्यक्तिभेदविवक्षया बहूनीत्युक्तम् / साध्यसाधनयोः सम्बन्धो वास्तवोऽस्तु / किं तन्निश्चयेनेत्याह-तदयमिति / यत एवं तत्तस्मादयमभिधास्यमानस्तात्पर्यार्थः सर्व इत्यादेर्वाक्यस्य। प्रदीपो वैधर्म्यदृष्टान्तः / योग्यतया तथाशक्यतया / .. ननु परोक्षार्थप्रतिपादनव्यापारसमावेशाद हेतुर्गमकस्तत्कि साध्यनान्तरीयकत्वनिश्चयेनेत्याह-साध्येति / . हिर्यस्मादर्थे / साध्याविनाभावित्वनिश्चयनमत्रापीदमेतत्स्वभावमिति निश्चयः / तदेव हेतोः प्रतिपादनव्यापारः परोक्षार्थप्रतिपादनलक्षणो व्यापारः परोक्षार्थप्रतिपादकत्वमित्यर्थः / यद्येवमनिश्चितसम्बन्धेऽपि साध्यधर्मे साधनधर्मस्तन्नान्तरीयकतया निश्चेतं * शक्य इति किं सिद्धसम्बन्धेन साध्येनानुसतेनेत्याह-प्रथममिति / प्रथमं हेतुप्रयोगात्प्राक, बाधकेन साध्यविपर्ययो हेतो[60b]४ . . . . . . . . . . . . . . . . . . . . . . . ........................................................ ...161aसाध्यसाधनभाव इति चेत् / यद्दर्शनद्वारायातावेतौ कृतकत्वानित्यत्वविकल्पी व्यावृत्तिनिष्ठी परमार्थतस्तस्य तादात्म्यादित्युक्तप्रायमित्यदोषः / तादात्म्यावसायः कुत इति चेद् विपर्यये वाधकप्रमाणवशात् / तत एव तर्हि साध्यं सिद्धमिति किं साध्यत इति चेत् / न / ततो धर्म्यनवच्छेदेन प्लवमानाकारायाः प्रतीतेरप्रवृत्त्यङ्गस्योदयात् / यत्पुनरियं धर्मकालविशे . प्रमाणैर्यस्य साधनधर्मस्य यदात्मीयं C.D. प्रमाणैर्यस्य यदात्मीयं-B . अथ नान्तरीयत्वानिश्चयेऽपि लिङ्गस्य परोक्षार्थप्रतिपादकत्वं स्यादित्याह-टि. 3 ०मेव हेतोः B 4 नैतत्पत्रं प्रतिबिम्बितम्-सं० 21