________________ विशेषणश्च / तृतीयः परार्थानुमानपरिच्छेदः / [ 3.14. __ तदेवं त्रिविधः स्वभावहेतुप्रयोगो' वर्शितः शुद्धोऽव्यतिरिक्तविशेषणो व्यतिरिक्त 'एवमर्थ चैतदाख्यातम्-वाचकभेदान्मा भूत् कस्यचित्स्वभावहेतावपि प्रयुक्ते व्यामोह इति // 'सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मोपदर्शनम् // 14 // अथ किमेते स्वभावहेतवः सिद्धसम्बन्धे स्वभावे साध्ये प्रयोक्तव्या आहोस्विदसिद्धसंबन्ध इत्याशडक्य सिद्धसंबन्धे प्रयोक्तव्या इति दर्शयितुमाह सर्वे एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्ध एव साध्यधर्मेऽवगन्तव्याः // 15 // सर्व एत इति / गमकत्वात् साधनानि, पराश्रितत्वाच्च धर्माः, साधनधर्मा एव अयमस्याशयः-न कृतकशब्देन प्रतिपादितस्यार्थस्य अन्यथानुपपत्त्या हेतुव्यापारोऽत्र प्रतीयते येनात्रापि विशेषण[60a] पदस्य प्रयोगो वक्तुरिच्छातः स्याद् वा न वा किन्तु स्वोत्पत्तावपेक्षितपरव्यापारस्यैवार्थस्येदं नामेति कुतोऽनयोः साम्यमिति / एवं तावत्कश्चिद् विशेषणभूतोऽर्थोऽर्थात्प्रतीयमानः स्वशब्देनोच्यते न वा वक्तुरिच्छावशादिति प्रतिपाद्य कश्चित्पुनर्विशेषणभूतोऽर्थः प्रतीयमानोऽप्यवश्यं स्वशब्देनोपादेय इति दर्शयितुमाह-प्रयुज्यमानेति। प्रयुज्यमान उपादीयमानः / स्वशब्दः स्ववाचको यस्य विशेषणरूपस्यार्थस्य स तथोक्तः। कोऽसावीदृश इत्याह-यथेति / प्रत्ययभेदः प्रत्ययभेदलक्षणोऽर्थो विशेषणात्माऽवश्यं स्ववाचकेन प्रत्ययभेदशब्देनाभिधीयत इति प्रकरणात् / - भेत्तुं भिदां गन्तुं / कस्मिन् साध्ये साधनमिदमित्याह-शब्दस्येति / एतच्च मीमांसकादीनां प्रति द्रष्टव्यम् / तदेवमित्यादिनोपसंहारः। स्वभावहेतोः साधर्म्यवत्प्रयोगमात्रे दर्शयितव्ये किमनेकस्य स्वभावहेतोः प्रयोगो दर्शित इत्याशक्य फलमस्योपदर्शयन्नाह-एवमर्थ चैतदिति / एवं वक्ष्यमाणकोऽर्थः प्रयोजनं यस्येति विग्रहः कार्यः / चोऽवधारणे हेतौ वा / एतदिति त्रैविध्यम् / एवमर्थ चैतत् हेतुजातमिति क्वचित्पाठस्तत्र च जातं वृन्दं द्रष्टव्यम् / तमेवार्थं वाचकेत्यादिना दर्शयति। वाचके व्यामोहो भ्रमस्तस्मात् / कस्यचित्प्रतिपत्तुः स्वभावहेतावपि प्रयुक्ते व्यामोहो 'नायं स्वभावः' इति विपर्ययज्ञानम् / .. एतदुक्तं भवति-यदि त्रयाणामन्यतम उपादीयेत तदा कदाचिदन्येनान्यथा प्रयुक्ते स्वभावहेतौ शास्त्रोक्तस्वभावहेतुवाचक[भिन्न]त्वात् 'नायं स्वभाववाचकः' इति वाचके १०हेतुयोगो B. . सन्नोत्प. E. 'एतदर्थम्-B. D. . 4 अस्मिन् सूत्रे न किंचित्केनचियाख्यातम्-सं०