________________ 3. 13. ] स्वाभावहेतोः प्रयोगाः / 159 ननु च चित्रगुशब्दे व्यतिरिक्तस्य विशेषणस्य वाचकश्चित्रशब्दो गोशब्दश्चास्ति / कृतकशब्दे तु निविशेषणवाचिन: शब्दस्य प्रयोगोस्तीत्याशडक्याह अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति // 12 // अपेक्षितेति / परेषां कारणानां व्यापारः स्वभावस्य निष्पत्तौ-निष्पत्त्यर्थमपेक्षितः परव्यापारो येन स तथोक्तः। हीति यस्मादर्थे / यस्मादपेक्षितपरव्यापारः कृतक उच्यते तस्माद् व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते। यद्यपि व्यतिरिक्तं विशेषणपर्व न' प्रयुक्तं तथापि कृतकशब्देनैव व्यतिरिक्तं 'विशेषणपदमन्तर्भावितम् / अत एव संज्ञाप्रकारोऽयं कृतकशब्दो यस्मात् संज्ञायामयं कन्प्रत्ययो विहितः। यत्र च विशेषणमन्तर्भाव्यते तत्र विशेषणपदं न प्रयुज्यते / क्वचित्तु प्रतीयमानं विशेषणं यथा कृत इत्युक्ते हेतुभिरित्येतत् प्रतीयते / तत्र च हेतुशब्दः प्रयुज्यते, कदाचिन्न वा प्रयुज्यते // एवं प्रत्ययभेदभेदित्वादयोऽपि द्रष्टव्याः // 13 // प्रयुज्यमानस्व शब्दश्च यथा प्रत्ययभेदभेदिशब्दे प्रत्ययभेदशब्दः / यथा च कृतकशब्दो भिन्नविशेषणस्वभावाभिधायी एवं प्रत्ययभेदभेदित्वमादिर्येषां प्रयत्नानन्तरीयकत्वादीनां तेऽपि स्वभावहेतोः प्रयोगा भिन्नविशेषणस्वभावाभिधायिनो द्रष्टव्याः। . प्रत्ययानां कारणानां भेदो विशेषस्तेन प्रत्ययभेदेन भेत्तुं शीलं यस्य स प्रत्ययभेदभेदी शब्दस्तस्य भावः प्रत्ययभेदभेदित्वम् / ततः प्रत्ययभेदभेदित्वाच्छब्दस्य कृतकत्वं साध्यते / प्रयत्नानन्तरीयकत्वादनित्यत्वम् / तत्र प्रत्ययभेदशब्दो व्यतिरिक्तविशेषणाभिधायी प्रत्ययभेव विशब्दे प्रयुक्तः। प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्दः / * 'पुनः कृतकशब्देनान्तर्भावितमित्याह यस्मादिति / संज्ञायां नाम्नि कन्प्रत्ययो विहितस्त स्मादन्तर्भावितमिति / अत एव संज्ञायां कनो विधानादेवायं कृतकशब्दः संज्ञाप्रकारः संज्ञाविशेषः संज्ञाशब्द इति यावात् / अन्तर्भावेऽपि कथं विशेषणपदाप्रयोग इत्याह-यत्रेति / चो यस्मादर्थे / अथावसितस्याप्यस्ति प्रयोगो यथा कृतक इत्युक्ते हेतुनेति प्रतीतावपि हेतुशब्दप्रयोग इत्याह-क्वचिदिति / तुः पूर्वस्माद् वैधयं (h) / प्रतीयमानं स्वत उत्पादायोगात् सामर्थ्यादवसीयमानम् / न च प्रयु० B. विशेषणमन्त. A. P. H. N. 4 तत्र हेतु B. 6 स्वशब्दो विशेषणशब्द:-टि. 8 प्रत्ययभेद: A. B. P. H. E. N. ..त्वं साध्यते / A. P.H. E. N. . क्वचित् प्र० A. B..P. H. E. N. 5 ०दयो द्र० B. P. H. E. N. प्रत्ययभेदशब्दे B. 1 यथा कृत० C.