________________ 158 [ 3.11 तृतीयः परार्थानुमानपरिच्छेदः / विशिष्टः स्वभावः प्रयुक्तो द्रष्टव्यः // यत् कृतकं तदनित्यमित्युपाधिभेदेन // 11 // यत् कृतकमिति कृतकत्वमनद्य अनित्यत्वं विधीयत इति अनित्यत्वे नियतं कृतकत्वमुक्तम् / अतो व्याप्तिरनित्यत्वेन कृतकत्वस्य दशिता। उपाधिभेदेन स्वभावस्य प्रयोग इति संबन्धः। उपाधिविशेषणम् / तस्य भेदेन भिन्नेनोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्यर्थः। २इह कदाचिच्छुद्ध एवार्थ उच्यते, कदाचिदव्यतिरिक्तेन विशेषणेन विशिष्टः कदाचिद्वयतिरिक्तेन / देवदत्त इति शुद्धः, लम्बकर्ण इत्यभिन्नकर्णद्वयविशिष्टः, चित्रगुरिति व्यतिरिक्तचित्रगवीविशिष्टः। तद्वत् सत्त्वं शुद्धम, उत्पत्तिमत्त्वमव्यतिरिक्तविशेषणम्, कृतकत्वं / व्यतिरिक्तविशेषणम् // तस्येति / भेदेन विशेष्याव्यतिरिक्ततया विशेषकत्वलक्षणेन विकल्पसन्दर्शितेन / ' स्वभावभतः / स्वभावात्मको धर्म इति च परमार्थाभिप्रायेणोक्तम् / भेदेनेतीयं तृतीया हेताविति दर्शयन्नाहभेदमिति / व्यवहारसिद्धं भेदमुत्पत्तुः सकाशादन्यत्वं हेतकृत्य निबन्धनीकृत्य प्रयोगः सविशेषणस्य स्वभावहेतोरिति प्रकरणात् / कल्पनयाऽपि कथं भेदो येनोत्पत्त्या विशिष्टमुत्पत्तिमदुच्यत इत्याह-अनुत्पन्नेभ्य इति / हिर्यस्मात् / अनुत्पन्नेभ्य आकाशादिभ्यो व्यावृत्ति व्य यदि व्यावृत्त्याश्रयेणोत्पन्नो भाव उच्यते तहि कथमुत्पत्तिरस्येति प्रयोग इत्याह-सैवेति / .. व्यावृत्त्यन्तरं महत्त्वादि तन्निरपेक्षा वक्तुमिष्यते यदा तदा। तेन परमार्थतः स्वभावभूतेनोत्पत्त्याख्येन धर्मेण कल्पितः समारोपितो भेदोऽर्थान्तरत्वं यस्य ये (d)न अव्यतिरिक्तेन विशेषणेन विशिष्टस्य स्वभावहेतोः प्रयोग इत्यर्थः / पूर्वमव्यतिरिक्तविशेषणविशिष्टस्य स्वभावस्य प्रयोगः। अधुना तु भिन्नविशेषणविशिष्टस्येति भेदस्तदाह-भिन्नेनेति / यद्वा भिन्नेन पूर्वस्मादन्यादृशेन सङ्केतवशादन्तर्भावितेन, न तु विद्यमानस्ववाचकेन / अत एवायमन्यतो भिद्यते प्रयोगः / इहेति परप्रतिपादनार्थे शब्दप्रयोगे। शद्धो निविशेषणः / अथ किमेकोऽर्थः शुद्धः कदाचिदव्यतिरिक्तोपाधिना विशिष्टः; कदाचिद् व्यतिरिक्तविशेषणविशिष्टो दृष्टः शिष्टः प्रयुज्यमानो येनैवमुच्यमानं परभागं पुष्णातीत्याह-देवदत्त इति / वक्ष्यमाणतद्वतशब्दात् यदवतशब्दोऽत्र द्रष्टव्यः / चित्राचासौ गौश्चेति "गोरतद्धितलकि" पाणिनि 5.4.92] इति टच, टित्वाङडीप तया विशिष्टः / यथाक्रममेव दृष्टान्तदाान्तिकयोजना कार्या / चित्रगुशब्देन कृतकशब्दस्य साम्यं नास्तीति मन्वानः पर आह-ननु चेति / कारणानां व्यापारो नियतप्राग्भावस्तदतिरेकिणो व्यापारस्याभावात् / ननु च कृतकशब्दे न विशेषणवाचिशब्दोऽस्तीति यदुक्तं तत्तदवदस्थमेवेत्याह-पद्यपीति / अन्तर्भावितं प्रकाशितम् / कथं '. ' अनियतत्वे-A. 2 परार्थानुमाने-टि.