________________ 3. 10.] स्वभावहेतोः प्रयोगाः / 157 सत्त्वमनद्य तत् सर्वमनित्यमित्यनित्यत्वं विधीयते / सर्वग्रहणं च नियमार्थम् / सर्वमनित्यम् / न किञ्चिन्नानित्यम् / यत् सत् तदनित्यमेव / अनित्यत्वादन्यत्र नित्यत्वे सत्त्वं नास्तीत्येवं सत्त्वमनित्यत्वे साध्ये नियतं ख्यापितं भवति। तथा च सति व्याप्तिप्रदर्शनवाक्यमिदम् / यथा घटादिरिति 'व्याप्तिसाधकस्य प्रमाणस्य विषयकथनमेतत् / शुद्धस्येति निविशेषणस्य स्वभावस्य प्रयोगः। सविशेषणं दर्शयितुमाहयदुत्पत्तिमत् तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः // 10 // ___ यदुत्पत्तिमदिति / उत्पतिः स्वरूपलाभो यस्यास्ति तद् उत्पत्तिमत् / उत्पत्तिमत्त्वमनूद्य तदनित्यमित्यनित्यत्वविधिः / तथा च सत्युत्पत्तिमत्त्वमनित्यत्वे नियतमाख्यातम् / स्वभावं भूतः तदात्मको धर्मः / तस्य भेदेन। भेवं हेतूकृत्य प्रयोगः / 'अनुत्पनेभ्यो हि व्यावृत्तिमाश्रित्योत्पन्नो भाव इत्युच्यते / सैव व्यावृत्तिर्यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुमिष्यते तदा व्यतिरेकिणीव निर्दिश्यते-भावस्य उत्पत्तिरिति / तया च व्यतिरिक्तयेवोत्पत्त्या विशिष्टं वस्तु उत्पत्तिमदुक्तम् / तेन स्वभावभूतेन धर्मेण कल्पितभेदेन भवतीति नियमख्यापनार्थ सर्वग्रहणं भवति / अन्यथा निःशेषत्वानुपपत्तेरिति / सर्वमित्याद्यस्यैव स्पष्टीकरणम् / तथा च सति नियतत्वनियमविषयत्वख्यापनप्रकारे सति / इदं वाक्यं यत्सत्तदनित्यमित्यात्मकम् / व्याप्तिसाधकस्य प्रमाणस्येति यस्य क्रमाक्रमाऽयोगो न तस्य क्वचित्सामर्थ्य यथाऽऽकाशकुशेशयस्य / अस्ति चाक्षणिके स इति व्यापकानुपलम्भसम्भवस्यानुमानस्येति द्रष्टव्यम्। एतच्च बहुवाच्यमन्यत्र विपञ्चितं नेहाप्रकृतत्वात्प्रतन्यते। कथं पुनरुत्पत्तिर्भावस्य विशेषणमित्याह-स्वभावमिति / स्वभावं भूतः प्राप्त इति कर्तरि निष्ठा, "द्वितीया"[पाणिनि 2.1.24 इति योगविभागा[59b]त्समासः / अस्यैव स्पष्टीकरणं तदात्मक इति / यदि स्वभावः कथं विशेषणम्, भेदेन तस्य दर्शनाद् इत्याह ' व्याप्तिसाधनस्य A. B. C. D. P. H. E. N. नित्यक्रमयोगपद्याभ्याम् अर्थक्रियाविरोधादिति विपर्ययबाधकं प्रमाणम्-टि. 2 प्रयोगस्य विशेषणं दर्श० B. / यदुत्पत्तिः C. यदुत्पत्तिमदिति उत्पत्तिमत्त्वमनू० A. 4 लाभः स यस्यास्ति-B. ___ विधेः A. P. H.. 6 अग्रे स्वयं दुर्वेकेण 'स्वभावभूतः स्वभावात्मकः' इत्यादिना 'स्वभावभूतः' इत्येव धर्मोत्तरसंमतः पाठ इति गृहीतस्तथापि अत्र तेनैव 'स्वभावं भूतः' इत्येवंरूपेण गृहीतोऽस्ति इति व्याख्यानुरोधाद् भाति-सं०। स्वभावभूतः-A. B. C. D. P. H. E.N. ... 7 स्वभावात्मको A.B.C. D. P. H. E. N. 'ननु स्वभावभूतस्य कथं भद इत्याह-टि० 'भाव उच्यते A. B. D. P. H. E. N. 10 विशिष्टं च वस्तु-C.