________________ तृतीयः परार्थानुमानपरिच्छेदः / प्रदेश एकदेशः पृथिव्याः। स एव विशिष्यतेऽन्यस्मादिति विशेषः एकः। प्रदेशविशेष इत्येकस्मिन् प्रदेशे। क्वचिदिति। प्रतिपत्तः प्रत्यक्ष' एकोऽपि प्रदेशः। स एवाभावव्यवहाराधिकरणं यः प्रतिपत्तुः प्रत्यक्षो नान्यः / उपलब्धिलक्षणप्राप्त इति दृश्यः। यथा चासतोऽपि घटस्य समारोपितमुपलब्धिलक्षणप्राप्तत्वं तथा व्याख्यातम् // स्वभावहेतोः साधर्म्यवन्तं प्रयोग दर्शयितुमाह तथा स्वभावहेतोः प्रयोगः-यत् सत् तत् सर्वमनित्यम्, यथा घटादिरिति शुद्धस्य' स्वभावहेतोः प्रयोगः // 6 // तथेति। यथाऽनुपलब्धेस्तथा स्वभावहेतोः साधर्म्यवान् प्रयोग इत्यर्थः। यत् सदिति प्रवृत्तं प्रमाणं साध्यसाधनयोाप्तिमवस्यति / स च विषयो दृष्टो निश्चितः साध्यसाधनयोरन्तोऽवसानं यथायोगं नियतत्वनियमविषयत्वनिपुणो यस्मिन्निति व्युत्पत्त्या दृष्टान्तशब्दोऽभिलप्यः / तमेव ख्यापयितुमाहाचार्यः / अनेनैतदाकूतम्-व्याप्तिसाधकप्रमाणस्याधिकरणतां गच्छन् दृष्टान्तः साधनावयवस्य व्याप्तेः प्रतिपत्त्यङ्गम् / न तु साक्षात्साधनस्य / नापि साध्यसिद्धेः / तद्वचनमपि तत्स्मारकत्वेन साधनवाक्य उपयुज्यते। अत एव वचनसाधनवाक्यस्यावयवोऽथ च प्रयोक्तव्य इति / कुतोऽन्य इत्याह-साध्यमिण इति / शशविषाणादेश्च व्याप्तिसाधकप्रमाणाधिकरणत्वेन दृष्टान्तरूपत्वाद् दृष्टान्त इत्यर्थ इति स्पष्टयति / ननु दृष्टश्चक्षुषा ज्ञात इति किं न व्याख्यायते ? किं पुनरेवं व्याख्यायत इत्याहशशेति / हीति यस्मात् / विषयीकृतं विज्ञातमिति चातीते निष्ठां प्रयुञ्जानः प्राग्भावि व्याप्तिग्रहणं दर्शयति / कथं पुनः शशविषाणादि दृष्टान्तो येन सा ख्याप्यत इत्याह-शशेति / हिर्यस्मात् / दृश्यानुपलम्भ एव तन्मात्रं तन्निमित्तं यस्य स तथा / अनेन व्याप्तिसाधकप्रमाणाधिकरणत्वात्तस्य दृष्टान्तरूपतामाह। किं तत्प्रमाणं येन तत्र प्रवृत्तेन दृश्यानुपलम्भाभावव्यवहारयोग्यत्वयोर्व्याप्तिः साध्यत इति चेत्। उच्यते / वादन्यायोक्तेन न्यायेन बुद्धिव्यपदेशाभावादेरसद्व्यवहारानिमित्तत्वेन निमित्तान्तराभावे दृश्यानुपळम्भ एवान्यनिरपेक्षो निमित्तम् / यच्च यन्मात्रनिमित्तं तत्तस्मिन् सति भवति / यथा बीजादिसामग्रीमात्रनिमित्तोऽङकुरः सति तस्मिन् भवति / दृश्यानुपलम्भमात्रनिमित्तश्चासद्व्यवहार इत्यनुमानं तत्र प्रवृत्तं साध्यसाधनयोर्व्याप्तिमवस्यतीति / .. अनेन वाक्येन यदुपलब्धिलक्षणप्राप्तमित्यादिनाऽभिधीयमाना प्रकाश्यमाना। तत एव प्राक्प्रवृत्तादनन्तरोक्तादनुमानात्मनः प्रमाणाद् व्याप्तिर्जातव्या / एतदुक्तं भवति तत्प्रमाणसिद्धव व्याप्तिरनेन वाक्येन स्मर्यत इति // .. स्वभावेत्यादिना स्वभावहेतोः साधर्म्यवत्प्रयोगं विवरितुमुपक्रमते / सर्वशब्दस्याऽशेषताऽर्थः। तयैव प्रतिपादितया साधनस्य साध्यायत्तताख्यो यो नियमः स प्रतिपादितो ' प्रत्यक्षे। एको• C. D. E. N. 2 शुद्धस्वभावस्य प्रयोगः C. /