________________ 154 तृतीयः परार्थानुमानपरिच्छेदः / [ 3.8. तत्र साधर्म्यवत्प्रयोगः' -यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्वयवहारविषयः सिद्धः। यथाऽन्यः कश्चिद् दृष्टः शशविषाणादिः। नोपलभ्यते च क्वचित् प्रदेशविशेष उपलब्धिलक्षणप्राप्तो घट 2 इत्यनुपलब्धिप्रयोगः // 8 // तत्रेति तयोः साधर्म्यवधर्म्यवतोरनुमानयोः साधर्म्यवत् तावदुहारननुपलब्धिमाहयदित्यादिना। यदुपलब्धिलक्षणप्राप्तं-यद दृश्यं सन्नोपलभ्यते इत्यनेन दृश्यानुपलम्भोड- . नूद्यते। सोऽसद्वयवहारविषयः सिद्धः-तदसदिति व्यवहर्तव्यमित्यर्थः। अनेनासढयवहारयोग्यत्वस्य विधिः कृतः। ततश्चासद्वयवहारयोग्यत्वे दृश्यानुपलम्भो नियतः कथितः / दृश्यमनुपलब्धमसद्वयवहारयोग्यमेवेत्यर्थः / साधनस्य च साध्येऽर्थे नियतत्वकथनं व्याप्ति च यदि व्यतिरेकोऽभिधेयः, कथमन्वयः प्रकाश्यतामापन्न इत्याह-अन्वय इति / हिर्यस्मात् / वक्ष्यमाणेन "साधयेणापि ही"त्यादिना प्रतिपादयिष्यमाणेन न्यायेन युक्ता।. .. . स्यान्मतम्-ययोरभिधेयं भिन्नं तयोः सामर्थ्यगम्यमप्यवश्यं भिद्यते-यथा गङ्गायां घोषः, कूपे गर्गकुलमित्याशङक्याह-न चेति / चो यस्मादर्थे। अर्थः प्रयोजनं यदुद्दिश्य प्रवृत्तं वाक्यम् / उपपत्तिमाह-यस्मादिति / एकस्य वाक्यस्य दिवा भोजनाभावोऽभिधेयोऽन्यस्य रात्रिभोजनमित्यनयोक्यि[58b]योरभिधेयभेदोऽस्ति / तस्मिन् सत्यपि यथा भोजनविशिष्टं देवदत्तस्य पीनत्वं प्रतिपाद्यं न भिद्यते तद्वदत्राभिधेयस्यान्वयपक्षधर्मतालक्षणस्य व्यतिरेकपक्षधर्मतालक्षणस्य भेदेऽपि गम्यमानमेकमभिन्नम् / अथ गम्यमानं सामर्थ्यात् प्रतीयमानमुच्यते / तच्च दृष्टान्तदा न्तिकयोभिद्यत एव / तथाहि दिवा भोजननिषेधवाक्यस्य गम्यमानं रात्रिभोजनं रात्रिभोजनविधानवाक्यस्य तु गम्यमानं दिवा भोजननिषेधनम्, तथा दार्टान्तिकेपि साधन (साधर्म्य)वद् वाक्ये व्यतिरेको गम्यमानो वैधर्म्यवदवाक्ये चान्वयो गम्यमानः / यदेकस्याभिधेयं तदेकस्य गम्यमानम्, यदन्यस्य गम्यमानं तदितरस्याभिधेयमिति संक्षेपः / ततः कथमुच्यते वाक्ययोर्गम्यमानमेकमिति / किन्नोच्यते ? गम्यमानशब्दस्येहान्यार्थस्य विवक्षितत्वात् / तथाहि गम्यमानशब्देनात्राभिधेयं सामर्थ्यप्रकाश्यञ्च / यत्तु द्वयं प्रतीयमानतामात्रेणोपाधिना विवक्षितं तच्च दृष्टान्तवाक्ययोभॊजननिमित्तपीनत्वलक्षणं दाष्र्टान्तिकवाक्ययोश्चान्वयव्यतिरेकपक्षधर्मतात्मकरूपत्रययोगलिङ्गलक्षणमेकमभिन्नमित्यनवद्यमेतत् // साधर्म्यमभिधेयं यस्य विद्यते तदुदाहरणेन दर्शयन्ननुपलब्धिमाह। तावच्छब्दः क्रमे / १०यंवत् यदुप०-D. B. P. H. E. N. 2 विषये उप० C. 3 घट इति // D. B. P. H. E. N. 4 तावदुहारणमुदाहर्तुमनुप० C. B. 5 विषयस्तद० B. C. D. 6 योग्यत्वे विधिः B. ७०हारस्य योग्य A. B. P. H. E. N.