________________ 3.7] . परार्थानुमानभेदनिरूपणम् / अभिधेयभेवोऽपि तहि न स्यावित्याह- ... ... अन्यत्र प्रयोगमेदात् // 7 // . अन्यत्र प्रयोगभेदादिति / प्रयोगोऽभिधानं वाचकत्वम्। वाचकत्वभेदावन्यो भेवः प्रयोजनकृतो नास्तीत्यर्थः। . एतदुक्तं भवति / अन्यदभिधेयमन्यत् प्रकाश्यं प्रयोजनम् / तत्राभिधेयापेक्षया वाचकत्वं भिद्यते। प्रकाश्यं त्वभिन्नम्। अन्वये हि कथिते वक्ष्यमाणेन न्यायन व्यतिरेकगतिर्भवति / व्यतिरेके चान्वयगतिः / ततस्त्रिरूपं लिङ्गप्रकाश्यमभिन्नम्। न च यत्राभिधेयभेदस्तत्र सामर्थ्यगम्योऽप्यर्थो' भिद्यते। यस्मात् 'पीनो देवदत्तो दिवा न भुङक्ते' 'पीनो देवदत्तो रात्रौ भक्ते' इत्यनयोर्वाक्ययोरभिधेयभेदेपि गम्यमानमेकमेव तद्वविहाभिधेयभेदेपि गम्यमानं वस्त्वेकमेव // केन कस्य किं कृतं च साधर्म्य वैधयं चेत्याह-दृष्टान्तेति / सादृश्यं हेतुकृतमिति हेतुसद्भावद्वारकम् / असादृश्यं च हेतुकृतमिति हेतुसद्भावासद्भावद्वारकं द्रष्टव्यम् / वतुबर्थं प्रयोजयितुमाह-तत्रेति वाक्योपन्यासे / यस्य वाक्यस्य साधर्म्य सादृश्यमभिधेयमस्ति / एतदेवोदाहरणेन दर्शयन्नाह-यथेति / यत्कृतकमिति / यद् यद् कृतकमिति वीप्सार्थों विवक्षितः, तदित्यत्रापि / तथा च कृतकः शब्द इति पक्षधर्मताकथनमिदम् / न त्वेवं पक्षधर्मो दर्शनीयः / 'कृतकश्च शब्दः' इत्येतावतव गतार्थत्वेन तथाशब्दस्य वैयर्थ्यात् / ततः 'कृतकश्च शब्दः' इत्येव दर्शनीयः / इतरथा परेषामिवोपनयप्रयोगः स्यात् / स चायुक्त इति / यन्नित्यमिति साध्याभावानुवादस्तदकृतकमिति साधनाभावविधिः / / : अभिधेयं भिन्नमिति अवतोऽयमाशयः-साधर्म्यवत्प्रयोगस्यान्वयः पक्षधर्मता चाभिधेया। अभिन्नं साधारणं प्रकाश्यं द्वयोः प्रयोगयोः / . ... अर्थः प्रयोजनवाच्याचार्येणोक्तो नाभिधेयवाचीति दर्शयति यदुद्दिश्यति स्पष्टयन् प्रयुज्यतेऽनेनेति प्रयोजनं साधनवाक्यस्य प्रवर्तकं लिङ्गवस्तूक्तं न फलं प्रयोजनमिति दर्शयति / प्रकाशयितव्यं रूपत्रययोगिलिङ्गं तच्चाभिन्नं साधारणं द्वयोरपि प्रयोगयोः, द्वाभ्यामपि तस्यैव प्रतिपादनात् / अनुमानहेतुत्वादनुमाने साधर्म्यवैधर्म्यवती वाक्ये कथिते / तत इति प्रयोजनसमानाधिकरणं न हेतुपदमेतत् // नन्वभिधेयमेव प्रकाश्यं तत्कथं प्रकाश्याभेद इत्याशङक्याह-एतदुक्तं भवतीति / अन्यत्प्रकाश्यमिति सामर्थ्यगम्यं प्रकाश्यम् / न तु तत्राभिधाव्यापार इत्याकूतम् / तत्रेति वाक्योपक्षेपे। यदि साधर्म्यवद्वाक्येऽन्वयोऽभिधेयस्तहि कथं व्यतिरेकः प्रकाश्यतां गतः। वैधर्म्यवाक्ये 4 . . . . - 1 प्रयोजनम्-टि. 2 गम्यं दिवा भोजनाभावविशेषं पीनत्वं रात्रिभोजनकार्यमेकमेव-टि० .. - 20