________________ 152 तृतीयः परार्थानुमानपरिच्छेदः / [3.4. तद् द्विविधमिति / तदिति परार्थानुमानम् / द्वौ विधौ प्रकारौ यस्य तद् द्विविधम् / / कुतो द्विविधमित्याह प्रयोगभेदात् // 4 // प्रयोगस्य शब्दव्यापारस्य भेदात् / प्रयुक्तिः प्रयोगोर्थाभिधानम् / शब्दस्यार्थाभिधानव्यापारभेदात् द्विविधमनुमानम् // तदेवाभिधानव्यापारनिबन्धन' द्वैविध्यं दर्शयितुमाह साधर्म्यवद्धधर्म्यवच्चेति // 5 // साधर्म्यवद्वैधर्म्यवच्चेति / समानो धर्मोऽस्य सोऽयं सधर्मा। तस्य भावः साधर्म्यम् / विसदृशो धर्मोऽस्य विधर्मा। विधर्मणो भावो वैधर्म्यम् / दृष्टान्तर्मिणा सह साध्यधर्मिणः सादृश्यं हेतुकृतं साधर्म्यमुच्यते। असादृश्यं च हेतुकृतं वैधयंमुच्यते। तत्र यस्य साधनवाक्यस्य साधर्म्यमभिधेयं तत् साधर्म्यवत् / यथा-यत कृतकं तदनित्यं यथा घटः, तथा च कृतकः शब्द इत्यत्र कृतकत्वकृतं दृष्टान्तसाध्यमिणोः सादृश्यमभिधेयम् / * यस्य तु वैधर्म्यमभिधेयं तद् वैधय॑वत् / यथा-यन्नित्यं तदकृतकं दृष्टं यथाकाशम् / शब्दस्तु कृतक इति 'कृतकत्वाऽकृतकत्वकृतं शब्दाकाशयोः साध्यदृष्टान्तर्मिणोरसादृश्यमिहाभिधेयम् // यद्यनयोः प्रयोगयोरभिधेयं भिन्नं कथं तहि त्रिरूपं लिङ्गमभिन्न प्रकाश्यमित्याह नानयोरर्थतः कश्चिद्भदः // 6 // नानयोरर्थत इति / अर्थः प्रयोजनम् / यत् प्रयोजनं प्रकाशयितव्यं वस्तु उद्दिश्यानुमाने प्रयुज्यते, ततः प्रयोजनादनयोन भेदः कश्चित् / त्रिरूपं हि लिङ्ग प्रकाशयितव्यम् / तबुद्दिश्य द्वे अप्येते प्रयुज्यते। द्वाभ्यामपि त्रिरूपं लिङ्ग प्रकाश्यत एव / ततः प्रकाशयितव्यं प्रयोजनमनयोरभिन्नम् / तथा च न ततो भेदः कश्चित् // अनेनैतदाह-न स्वास्थ्यादि प्रतिपन्नमपि परोक्षार्थप्रतिपादकं येन तदुच्येत / तद्वचनमवश्यं दर्शयितव्यमनुमानशब्देनाभिलप्येत / स्वयमशक्तमपि तु हेतुवचनं परोक्षप्रकाशनवस्तुसूचकत्वादनुमानशब्देनोक्तमिति / इति परमार्थ एवमस्योपचारस्य परमः प्रकृष्टोऽर्थःप्रयोजनम् / / विधशब्देन च विगृह्णतोऽभिप्रायः प्रागेव प्रदर्शितः / / अभिधानमर्थप्रकाशनम् // . 1 अभिधानस्य व्यापारो निबन्धनं यस्य-टि. . 3 वच्च // C. 3 धर्मो यस्य C. A. P. H. E. N. / तयोः साधर्म्यवैधर्म्ययो:-टि० 5 इति अकृतकत्वकृतम्-C. 6 जनम् प्रकाशयितव्यं वस्तु यदुद्दिश्यानु० A. P. H. E. N. 7 प्रयोजनान्नानयोर्भेद:-B. D.