________________ 3.3.] परार्थानुमाननिरूपणम् / 151 मनुमानशब्देनोच्यते / औपचारिक' वचनमनुमानम्, न मुख्यमित्यर्थः / न यावत् किंचिदुपचारादनुमानशब्देन वक्तुं शक्यं तावत् सर्व व्याख्येयम् / किन्त्वनुमानं व्याख्यातुकामेनानुमानस्वरूपस्य व्याख्येयत्वानिमित्तं व्याख्येयम् / निमित्तं च त्रिरूपं लिङ्गम्। तच्च स्वयं वा प्रतीतमनुमानस्य निमित्तं भवति, परेण वा प्रतिपादितं भवति / तस्माल्लिङ्गस्य स्वरूपं “च व्याख्येयम्, तत्प्रतिपादकश्च शब्दः। तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् / प्रतिपादकश्च' शब्द इह व्याख्येयः। ततः प्रतिपादकं शब्दमवश्यं वक्तव्यं दर्शयन् अनुमानशब्देनोक्तवानाचार्य इति परमार्थः // परार्थानुमानस्य प्रकारभेवं दर्शयितुमाह तद् द्विविधम् // 3 // ननु च त्रिरूपलिङ्गाभिधानादवगते सति धमिणि लिङ्गं ज्ञायते / तस्य तु व्याप्तिः स्मर्यते। तत्कथं 'त्रिरूपलिङ्गवचनात् तत्स्मृतिरुत्पद्यते' इत्युच्यत इति चेत् / उच्यते / गृह्यमाणमपि धूमादिवस्तु न तावल्लिङ्गं यावद् वह्नयादिसाध्याविनाभूततया न ज्ञायते / तथात्वं च तस्य न तदा ग्राह्यमपि तु पूर्वगृहीतमेव स्मर्त्तव्यमिति सूक्तं त्रिरूपलिङ्गस्मतिरुत्पद्यत इति / - स्मृतेरिति पक्षधर्मग्रहणसहिताया इति द्रष्टव्यम् / ___ अयमर्थः-वचनमपि त्रिरूपं लिङ्गं स्मरयत् परोक्षार्थज्ञानस्य परम्परया कारणं भवदुपचारादनुमानमुच्यत इति / ' अथाबाधितत्वाद्यपि लिङ्गस्य लक्षणमित्याचक्षते केचिदिति विप्रतिपत्तिदर्शनात् तव्यत्पादनं युक्तम्, न तु तद्वचनम्, तस्य विप्रतिपत्त्यभावादिति चेत् / न अत्राप्यव्याप्तिव्यतिरेकाभ्यां निगदन्तो विप्रतिपन्ना इत्यस्यापि व्युत्पादनं न्याय्यम् / अथाऽपि स्यात्, यदि परम्परयाऽनुमानहेतुत्वेन वचनमुपचारादनुमानमिति व्युत्पाद्यते तहि जिज्ञासास्वास्थ्यादिकमपि परम्परयाऽनुमानहेतुत्वादनुमानशब्देन वक्तुं शक्यमिति तदपि किं नोच्यत इत्याह-न यावदिति / . ननु स्वास्थ्यादिकमपि निमित्तमिति तदवस्थो दोषः। न। निमित्तं व्याख्येयमित्यव्यहितमसाधारणं निमित्तमाख्येयमित्यर्थः / ननु स्वयं प्रतीतं लिङ्गमनुमानस्य निमित्तम् / तत्कि तद्वचनेन व्याख्यातेनेत्याहतच्चेति। चो यस्मादर्थे / वाशब्दो विकल्पार्थः। यतः परेण प्रतिपादितमपि तल्लिङ्गमनुमानस्य निमित्तं ततस्तस्मादवश्यं वक्तव्यं प्र[58a]तिपादकं लिङ्गप्रतिपादकं वचनं दर्शयन्त्रनुमानशब्देनोक्तवानाचार्यः / 1 औपचारकम्-A. न च यावत् A. B. D. P. H. E. N. 3 स्वरूपस्यैव व्या० C. 4 'भवति' नास्ति A. C. P. E. N. ५'च' नास्ति A.P. H. E. ६०दकः शब्द A. B. P.H. E. N. N.