________________ तृतीयः परार्थानुमानपरिच्छेदः / स्वार्थ-परार्थानुमानयोः स्वार्थ व्याख्याय परार्थ व्याख्यातुकाम आह त्रिरूपलिङ्गाख्यानं 'परार्थमनुमानम् // 1 // त्रिरूपलिङ्गाख्यानमिति / त्रीणि रूपाणि-अन्वय-व्यतिरेक-पक्षधर्मत्वसंज्ञकानि यस्य तत् त्रिरूपम् / त्रिरूपं च तल्लिङ्गं च तस्याख्यानम् / आख्यायते प्रकाश्यतेऽनेनेतित्रिरूपं लिङ्गमिति आख्यानम् / किं पुनस्तत् ? वचनम् / वचनेन हि त्रिरूपं लिङ्गमाख्यायते। परस्मायिवं परार्थम् // ननु च सम्यग्ज्ञानात्मकमनुमानमुक्तम् / तत् किमर्थ संप्रति वचनात्मकमनुमानमुच्यत इत्याह कारणे कार्योपचारात् // 2 // कारणे कार्योपचारादिति / त्रिरूपलिङ्गाभिधानात् त्रिरूपलिङ्गस्मृतिरुत्पद्यते। स्मृतेश्चानुमानम्। तस्माद् अनुमानस्य परम्परया त्रिरूपलिङ्गाभिधानं कारणम् / तस्मिन् कारणे वचने कार्यस्य अनुमानस्योपचारः समारोपः क्रियते। ततः समारोपात् कारणं वचन त्रिरूपं लिङ्गं ज्ञातमपि वक्तुमविदुषो बालस्य व्युत्पादनार्थं त्रिरूपलिङ्गाख्यानलक्षणं यत्परार्थमनुमानमुक्तं तद् व्याख्यातं स्वार्थेत्यादिना प्रस्तौति / द्वयो रूपयोरभिधानादेकस्य गम्यमानत्वादाख्यायते प्रकाश्यतेऽनेनेति त्रिरूपं लिङ्गमिति विवृतं न- त्वभिधीयतेऽनेनेति / अभिधेयस्य गम्यमानस्य च प्रकाश्यत्वं तुल्यमिति प्रकाश्यते इत्यनेन द्वयोः सङग्रहः / येनार्थक्रमेणात्मनः परोक्षार्थज्ञानमुत्पन्नं तेनैव क्रमेण परसन्ताने लिङ्गिज्ञानोत्पिपादयिषया त्रिरूपस्य लिङ्गस्य ख्यापकं यद् वचनं तत्परार्थमनुमानमिति द्रष्टव्यम् // कारणे वचने कार्यस्य ज्ञानस्योपचारात् समारोपात् / कथं पुनर्वचनस्यानुमानहेतुत्वमित्याह-त्रिरूपेति / 1 परार्थानुमा० B.P.H.E.N. 2 च लिङ्ग चं A . त्रिरूपलि. E 4 त्रिरूपलि० C 5 परस्मायिति परा• E 6 ननु सम्य० A 7 त्रिरूपलिङ्गालम्बना स्मृतिः C. D. B. ' श्रोतु:-टि० 1 तस्यानुमानस्य-A. B. P. H. E. N.