________________ 149 2. 48. ] अदृश्यानुपलब्धिः संशयहेतुः / ननु च प्रमाणात् प्रमेयसत्ताव्यवस्था। ततः प्रमाणाभावात् प्रमेयाभावप्रतिपत्तियुक्तेत्याह प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति // 48 // // स्वार्थानुमानपरिच्छेदो द्वितीयः समाप्तः // प्रमाणनिवृत्तावपीत्याह। कारणं व्यापकं च निवर्तमान कार्य व्याप्यं च निवर्तयेत् / न च प्रमाणं प्रमेयस्य कारणं नापि व्यापकम् / अतः प्रमाणयोनिवृत्तावपि अर्थस्य प्रमेयस्य निवृत्तिर्न सिध्यति / ततोऽसिद्धेः संशयहेतुरदृश्यानुपलब्धिः, न निश्चयहेतुः / यत् पुनः प्रमाणसत्तया प्रमेयसत्ता सिध्यति तद् युक्तम् / प्रमेयकार्य हि प्रमाणम्। न च कारणमन्तरेण कार्यमस्ति / न तु कारणान्यवश्यं कार्यवन्ति भवन्ति / तस्मात् प्रमाणात् प्रमेयसत्ता व्यवस्थाप्या, न प्रमाणाभावात् प्रमेयाभावव्यवस्थेति // // आचार्यधर्मोत्तरकृतायां न्यायबिन्दुटीकायां स्वार्थानुमानो द्वितीयः परिच्छेदः॥ सम्प्रत्यदृश्यानुपलब्धिमधिकृत्योक्तं व्याचक्षाण आह–उक्तेति / ननु यदि प्रत्यक्षाऽनुमाननिवृत्तिमात्ररूपाऽदृश्यानुपलब्धिरभावे साध्ये संशयहेतुरनैकान्तिकी तहि सा ततश्च हेत्वाभासावसर एव वक्तव्या। तत् किमिहोच्यत इति चेत्। नैतम(द)स्ति / यतो न सा वचनव्यक्त्याऽनुपलब्धिलक्षणप्राप्तस्यानुपलब्धिरसद्व्यवहारे साध्ये न प्रमाणम्, ऐकान्तिकसद्व्यवहारनिषेधे तु प्रमाणमिति प्रदर्शनात् / न ज्ञानज्ञेयस्वभावेति यावदित्यार्थ न्यायमाश्रित्योक्तं न शाब्दमिति द्रष्टव्यम् // यदि प्रमाणनिवृत्त्या [57b]प्रमेयानिवृत्तिस्तर्हि तत्सत्तयाऽपि न प्रमेयसत्ता सिद्धयेदित्याशङक्य तत्रोपपत्ति दर्शयन्नाह यत्पुनरिति / ननु कारणमप्यवश्यं कार्यवद् भवति ततश्च सति ज्ञेये ज्ञानेनाप्यवश्यभाव्यम् / तच्चेन्नास्ति ज्ञेयमपि नास्त्येव / ततः सिद्धयत्येवाऽदृश्यस्याप्यभाव इत्याशङ्कयाह-न त्विति। तुना कार्यधर्मात् कारणधर्मस्य वैधर्म्यमाह। एतच्च कारणमात्राभिप्रायेणोक्तम्, यथा चैत्तथा प्रागेव निर्णीतम् / तस्मादित्यादिनाऽस्यैव प्रकृतस्योपसंहार इति // // पण्डितजितारिशिष्यदुर्वेकमिश्रविरचितधर्मोत्तरनिबन्धस्य द्वितीयः परिच्छेदः / / '॥द्वितीयपरिच्छेदः।।-D. B. |न्यायबिन्दुप्रकरणे द्वितीयः परिच्छेदः समाप्तः।।-E. 2 न च-B. D. 3 // न्यायबिन्दुटीकायां द्वितीयः परिच्छेदः समाप्तः // A. B. P. H. E. // न्यायबिन्दुटीकायां द्वितीयः परिच्छेदः // D.