________________ 148 द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2.47. उक्ता दृश्यानुपलब्धिरभावे, अभावव्यवहारे च साध्ये प्रमाणम् / अदृश्यानुपलब्धिस्तु' किस्वभावा, किंव्यापारा' चेत्याहविप्रकृष्टविषया पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः // 47 // विप्रकृष्टेत्यादि। विप्रकृष्टस्त्रिभिर्देशकालस्वभावविप्रकर्यस्या विषयः सा विप्रकृष्टविषयेति संशयहेतुः / किस्वभावा सेत्याह-प्रत्यक्षानुमाननिवृत्तिलक्षणं स्वभावो यस्याः सा प्रत्यक्षानुमाननिवृत्तिलक्षणा। न ज्ञानज्ञेयस्वभावेति यावत् // निषेधे साध्ये दूरत्वाद् वह्न स्वररूपोपलब्धिः शीतस्पर्शानुपलब्धियुज्यते। येनानुपलब्धिः सिद्धयेत्, रूपस्पर्शयोरेकज्ञानसंसर्गित्वाभावात् / [57a] न च विरोधग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकत्वेन दृश्यानुपलम्भत्वं वाच्यम्, प्राक्प्रवृत्तप्रत्यक्षस्मारकत्वेनापि प्रत्यक्षत्वप्रसङ्गात्। अत एव विरोधादिग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकत्वेनानुपलब्धीनां तत्रान्तर्भावो न युज्यते। नापि स्मृतायास्तस्या एवाभावनिश्चयः, व्याप्तिग्राहकप्रमाणस्मारकत्वेन परार्थानुमानस्य तत्प्रमाणान्तर्भावप्रसङ्गात्, तत एव स्मर्यमाणात् प्रमाणाद् विवक्षितप्रतीतिप्रसङ्गाच्च / तस्मात्सर्वत्रैव सम्प्रतितनो दृश्यानुपलम्भो दर्शनीयस्तद्बलेनैवाभावनिश्चयो वाच्यः, न तु प्राक्प्रवृत्ताद् दृश्यानुपलम्भात् स्मृत्या विषयीकृतादभावनिश्चयः। नापि तत्स्मारकत्वेनानुपलब्धीनां तथात्वमिति / यद्येवं कथङ्कारं स प्रदर्यतामिति चेत् / उच्यते / दूराद् वह्न रूपविशेषं दृष्ट्वा यत्रैवंविधरूपविशेषस्तत्र तावदेशव्यापकस्तुषारस्पर्शविशेषोऽस्ति / यथा महानसादौ तथाविधमेवंरूपमित्यानुमानिकी विशिष्टोष्णस्पर्शप्रतीतिः। सैव च शीतस्पर्शानुपलब्धिरुष्णशीतस्पर्शयोरेकज्ञानसंसर्गित्वात् / विवक्षितोपलम्भादन्य उपलम्भोऽनुपलम्भः / स क्वचित्प्रत्यक्षात्मा क्वचिदनुमानात्मेति न शास्त्रविरोधो न युक्तिविरोधः / तत एव तदृश्यानुपलम्भाच्छीतस्पर्शाभावप्रतीतिः / __आहत्यन्तं (आहत्य) दृश्यानुपलब्धेरनुदयाद् दृश्यानुपलब्धर्भेदेन निर्देशः। अत एव चानुमिताऽनुमानमेतत् / केवलमत्यन्ताभ्यासाञ्झटिति तथाप्रतीत्युदये सत्येकमनुमानमुक्तम् / वस्तुतस्त्वनेकमनुमानमेतत् / एवं व्यापकविरुद्धकार्योपलब्ध्यादावपि सर्वं द्रष्टव्यम् / तथा च व्यापकविरुद्धोपलब्ध्यादिष्वपरमनमानमेकं प्लवमानमवसेयम् / ययोश्च परस्परपरिहारस्थितलक्षणो विरोधस्तत्र दश्यानपलब्धिः स्फटव / तेन विरुद्धव्याप्तोपलब्ध्यादिषु सम्प्रत्येव दृश्यानुपलब्धिरस्ति / भेदस्तु पारम्पर्येण तदुदयात् / एवं व्यापककारणानुपलब्ध्यादिष्वकारणव्यापकादेर्धर्मस्यैवानपलम्भादभावे सिद्धे तत एव सामर्थ्यात्कार्यादेरभावावसाय इतीदानीन्तनस्यैव दृश्यानुपलम्भस्योपयोगो न प्राक्तनस्य स्मृत्यादिविषयीकृतस्य / दृश्यानुपलम्भस्य च साक्षात्कारणे व्यापारात् पारम्पर्येण च विरुद्धाद्यभावे भावे व्यापारात् दृश्यानुपलब्धर्भेदेन कारणानुपलब्ध्यादीनां प्रयोग इति // 2 पारेत्याह-B. D. 1 लब्धिः किं A. P. H. E. 3 विषयानुप०-B. C. HE. N.