________________ 2. 46. ]. अदृश्यानां विरोधादेरसिद्धिः / 147 विरुद्धविधिना, कारणादिनिषेधेन च यतो दृश्यानुपलब्धिराक्षिप्ता ततो दृश्यानुपलब्धेरेव' कालान्तरवृत्तायाः स्मृतिविषयभूताया अभावप्रतिपत्तिः। अमीषां च प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः / तदनेन सर्वेण दृश्यानुपलब्धावन्तर्भावो वशानामनुपलब्धिप्रयोगाणां पारम्पर्येण दर्शित इति वेदितव्यम् // आस्तां सर्वत्र विरोधादावभावप्रतीतिः, दृश्यानुपलब्धिस्तु क्वोपयुज्यत इत्याहअभावेति / चो हेतौ। __ननु यदि नाम विरोधादिग्रहणकाले दश्यानुपलब्धिरासीत्, तथापि न सा विरुद्धोपलब्धि-व्यापकानुपलब्ध्यादिप्रयोगविषये सम्प्रत्यनुवर्तते / तत्कथं विरुद्धोपलब्ध्यादीनां तत्रान्तर्भाव इत्याह तस्मादिति / यतोऽभावप्रतीतिमन्तरेण न विरोधादिसिद्धिः, अभावसिद्धिश्च दृश्यानुपलब्धेस्तस्माद् हेतोविरोधादिकं स्मरतेति विरुद्धोपलम्भव्यापकानुपलम्भादिप्रयोगकाल इति द्रष्टव्यम् / तदस्मरणे हि यतो विरुद्धादिरिहास्ति, यतोऽयं व्यापकादिर्नास्ति, तस्मात्तत्तन्नास्तीत्यस्याः प्रतीतेरयोगात्-इत्यपि द्रष्टव्यम् / स्मरतेति च तदानीं विरोधादेर्ग्रहणाद् गृहीतस्यैव विकल्पनादुक्तम् / कुतः पुनरवश्यस्मर्त्तव्या सेत्याह-दृश्येति / अथ स्यात्-प्राक्तनी दृश्यानुपलब्धिः सदा स्मर्यताम्, तथापि कथमसौ विवक्षिताभावसिद्धावुपयोगं भजते, येनात्मनीतरा अनुपलब्धौ(ब्धी)रन्तर्भावयतीत्याह-विरोधेति / चो यस्मात्तस्यां नियतस्मरणायां सत्याम् / ननु विरुद्धोपलब्धिकारणाद्यनुपलब्धिप्रयोगविषये सा नास्ति तत्कथमविद्यमाना सैवाभावप्रतीतेनिबन्धनमित्याह-तत्रेति वाक्योपन्यासे। सम्प्रतीदानी स्मर्यमाणा सैवाभावप्रतीतेनिबन्धन विरुद्धाद्यभावज्ञानस्य करणम् / कथं तर्हि दृश्यानुपलब्धेविरुद्धोपलब्ध्यादीनां भेद इत्याह-तत इति / ततो विरोधादिग्रहणकालप्रवृत्ताया दृश्यानुपलब्धेः स्मर्यमाणत्वात्, सम्प्रति सा नास्ति। इतिस्तस्मादवाभाव: साध्यते तेनाभावसाधनत्वेन ततो भिद्यन्ते विरुद्धोपलब्ध्यादिप्रयोगाः / विरुद्धविधिनेत्यादिनोक्तमर्थमुपसंहरति / विरुद्धविधिनेत्युपलक्षणम् / विरुद्धकार्यादिविधिनाऽपि दृश्यानुपलम्भाक्षेपात् / अन्यथा तासां तत्रान्तर्भावो न स्यात् / / ननु स्वातन्त्र्येण त्वया तस्या एव प्राक्प्रवृत्ताया अभावनिश्चयो दर्शितस्तत्र चानुपलब्धीनामन्तर्भावः, न त्वाचार्यस्यायमभिप्रेत इत्याशङ्कयाचार्यस्यैवायमभिप्रेतोऽर्थ इति दर्शयन्नाहतदनेनेति। अनेन इमे सर्व इत्यादिना व्यापकभावासिद्धरित्यन्तेन / यदि साक्षात्तस्यामन्तर्भावस्तदा दृश्यानुपलब्धिः स्यात, न विरुद्धोपलब्ध्यादिभेद इत्याहपारम्पर्येणेति / विरुद्धादिप्रयोगकाले न साऽस्ति केवलं प्राक्प्रवृत्ता सा स्मर्यत इति / अयमत्र प्रकरणार्थ:-दृश्यानुपलम्भस्यावक्तव्यत्वेन दशानामप्यनुपलब्धीनां तत्रान्तर्भाव:, विरुद्धाद्यभावप्रतीतावनुपयोगश्चेति / केचित्पुनरत्रैवं ब्रुवते-इहैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भोऽनुपलम्भः / न च शीतस्य लब्धिरेव C.