________________ 146 द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2.46. मताभावे निश्चिते निश्चितो व्याप्यव्यापकभावः / तत्र व्याप्यव्यापकभावप्रतीतेनिमित्तमभावः प्रतिपत्तव्यः / इह गृहीते वृक्षाभावे हि शिशपात्वाभावप्रतीतौ प्रतीतो व्याप्यव्यापकभावः / अभावप्रतिपत्तिश्च सर्वत्र दृश्यानुपलब्धेरेव / तस्माद्विरोधम्, कार्यकारणभावम्, व्याप्यव्यापकभावं च . स्मरता विरोध-कार्यकारणभाव-व्याप्यव्यापकभावविषयाभावप्रतिपत्ति निबन्धनं दृश्यानुपलब्धिः स्मर्तव्या। दृश्यानुपलब्ध्यस्मरणे विरोधादीनामस्मरणम् / तथा च सति न विरुद्धादिविधिप्रतिषेधाभ्यामितराभावप्रतीतिः स्यात्। विरोधादिग्रहणकालभाविन्यां च दृश्यानुपलब्धाववश्यस्मर्तव्यायां तत एवाभावप्रतीतिः / तत्र यद्यपि संप्रतितनी नास्ति दृश्यानुपलब्धिविरोधादिग्रहणकाले त्वासीत् / या दृश्यानुपलब्धिः संप्रति स्मर्यमाणा सैवाभावप्रतिपत्तिनिबन्धनम् / ततः संप्रति नास्ति 'दृश्यानुपलब्धिरित्यभावसाधनत्वेन दृश्यानुपलब्धिप्रयोगाद भिद्यन्ते कार्यानपलब्ध्याविप्रयोगाः। विरुद्धशब्देन प्रतिषेध्यस्य विरुद्ध ग्राह्यम् / आदिशब्देन विरुद्धकार्यादीनां ग्रहणम् / येषामेकदोपलब्धिस्तेभ्योऽन्येऽनुपलब्धा एव। कदाचित्क्वचिदज्ञाता एव / व्यापकस्याभावेऽभावश्च व्याप्यस्य न सिद्धचति यस्मात् / अयमाशयः–यदि पूर्वं व्यापकाभिमतस्याभावे व्याप्याभिमताभावो निश्चितो भवेत् तदा व्याप्यव्यापकभावः सिद्धयेत्, तदा च व्यापकानुपलब्धिर्गमिका स्यात्, नान्यदेति। अयमत्र प्रकरणार्थ:-प्रबन्धेन भवतो यभावे यस्याभावस्तस्य विरोधगतिर्यत्स्वभावश्च येनोपलभ्यते तेन सह कार्यकारणभावोऽपि पञ्चप्रत्यक्षानुपलम्भसमधिगम्यः, व्याप्यव्यापकभावोऽपि प्रत्यक्षानुपलम्भावसेय इति कथमदृश्यस्य सिद्ध्यन्तीति / . ननु भवन्तु तेऽन्यत्र दृश्याः, तत्र तावददृश्या एव वक्तव्याः। ,दृश्यत्वे दृश्यानुपलम्भप्रयोगात् / तत्कथं दृश्यानुपलब्धावितरासामनुपलब्धीनामन्तर्भाव इत्याशङ्कय यथा तत्रान्तर्भावस्तथा दर्शयितुमाह-तदिति / यस्मादन्यत्र दृश्यत्वेऽपि विरुद्धादीनां दृश्यानुपलम्भेऽन्तर्भावो न घटते, स चाचार्येणोक्तस्तत्तस्मादयमर्थः-सर्वत्र चेत्यादेर्वाक्यस्य तात्पर्यार्थः / कथं दृश्यानुपलब्धेरित्यमुमर्थं तावत्प्रसाधयति-एकेति / कार्यकारणभावे का वातत्याह-कारणेति / यद्येवं व्याप्यव्यापकभावस्य का गतिरित्याह-व्यापकेति / ननु च व्याप्यव्यापकभावनिश्चये तयोरेकत्वात् किमभावनिश्चयेनेत्याह-तत्र व्याप्यव्यापकभावनिश्चये कर्त[56b]व्ये। कथमभावप्रतीतिप्प्यव्यापकभावप्रतीतेनिमित्तमित्याह-इहेति / 1 तत्-C. २०भावप्रतीतौ व्या० B. 3 देशकालस्वभावविप्रकृष्टाः पिशाचादयस्तेषां पिशाचादीनां विरोधश्च केनचिदग्निना सह न सिध्यतीति सम्बन्धः / तथा कार्यकारणभावश्च पिशाचादीनां केनचिभ्रूमेन साधं न सिध्यति / टि। 4 संप्रति नास्ति-A. P. H. E. N. 5 दृश्योपलब्धि . A. B. P. H. E. N. .