________________ 142 द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2.44. प्रतिषेधेन च प्रयोगा भिद्यन्ते / यदि प्रयोगान्तरेष्वर्थान्तरविधिप्रतिषेधो कथं तहि अन्तर्भवन्ति ? इत्याह-पारम्पर्येणेति प्रणालिकयेत्यर्थः / एतदुक्तं भवति-न साक्षादेते प्रयोगा दृश्यानुपलब्धिमभिदधति, दृश्यानुपलब्ध्यव्यभिचारिणं त्वर्थान्तरस्य विधि निषेधं वाऽभिदधति / ततः प्रणालिकयामीषां स्वभावानुपलब्धौ संग्रहो न साक्षादिति // यदि प्रयोगभेदादेष भेदः; परार्थानुमाने वक्तव्य एषः। शब्दभेदो हि प्रयोगभेदः / शब्दश्च परार्थानुमानमित्याशडक्याहप्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति' स्वार्थेऽप्यनुमा . नेऽस्याः प्रयोगनिर्देशः // 44 // प्रयोगदर्शनेत्यादि। प्रयोगाणां शास्त्रपरिपठितानां दर्शनमुपलम्भः। तस्याभ्यासः पुनः पुनरावर्तनम् / तस्मानिमित्तात् / स्वयमपीति प्रतिपत्तुरात्मनोऽपि। एवम् इत्यनन्तरोक्तेन ६क्रमण / व्यवच्छेदस्य प्रतिषेधस्य प्रतीतिर्भवतीति इतिशब्दस्तस्मादर्थे / कथं संग्रहमन्तर्भाव गच्छन्तीत्याह-तादात्म्येनेति / तस्याः स्वभावानुपलब्धेरात्मा तदात्मा तस्य भावस्तेन स्वभावानुपलब्धिात्वेन। अनुपलब्धिस्वभावा इत्यर्थ:-इतीदं स्पष्टीकरणमपि स्वभावानपलब्धिस्मारकत्वेन तत्स्वभावा इति द्रष्टव्यम् / / ८.......रेव किंन शब्दाख्या यत इति चेत् न-पारम्पर्यग्रहणव्याघातप्रसङ्गात्, न साक्षादेत इत्यादिवक्ष्यमाणधर्मोत्तरीयव्याख्यानव्याघातप्रसङ्गाच्चेति / शब्दस्य व्यापारोऽभिधालक्षणः तस्य भेदे भिद्यमानत्वेऽपि। स्वभावविरुद्धादीत्यादिग्रहणेन कारणविरुद्धादीनां ग्रहणम् / कार्यानपलब्ध्यादीत्यादिग्रहणेन व्यापकानुपलब्ध्यादीनां ग्रहणम् / अर्थान्तरविधिप्रतिषेधाभ्यामिति मूले करणतृतीयाद्विवचनान्तमेतदिति दर्शयन्नाह–अर्थान्तरेति। चस्तुल्यबलत्वं समुच्चिनोति / भिद्यन्ते नानारूपा भवन्ति / प्रयोगान्तरेष्वित्यन्तरशब्दोऽन्यवचनः स्वभावानुपलब्ध्यपेक्षया / परम्परा परिपाटिः। सैव पारम्पर्यमिति स्वार्थिक: प्रत्ययः / एतदेव स्पष्टयति-प्रणालिकयेति / ननु यद्यमीषां दृश्यानुपलब्धावन्तर्भावस्तदा साक्षात्तदभिधानम् तथात्वे च कथं पारम्पयेणेत्याशङक्याह-एतदुक्तं भवति। यदि नाभिदधति तदा-न साक्षादिति न कर्त्तव्यम् / 1 कथमन्तर्भ० C 2 भेदेन भेद: A P H EN प्रयोगभेदादेव भेद: BC 3 शब्दस्तु परा० BC 4 प्रतीतिरिति स्वानुमानेऽप्यस्याः प्रभेदनिर्देश:-C 5 शास्त्रघटितानाम् A.P.H.E.N. शास्त्रपरिघटितानाम् B. शास्त्रगदितानांपाठान्तरम्-टि० 6 प्रयोगदर्शनाभ्यासक्रमेण-टि० 7 भवति इतिश. C. B. 8 अस्पष्टम्-सं०