________________ 2.44.] अनुपलब्धिप्रकाराणामन्तर्भावनिरूपणम् / 143 तवयमर्थः यस्मात् स्वयमप्येवमनेनोपायेन' प्रतिपद्यते प्रयोगाभ्यासात्, तस्मात् स्वप्रतिपत्तावप्युपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानमाने निर्देशः। यत् पुनः परप्रतिपत्तावेवोपयुज्यते तत् परार्थानुमान एव वक्तव्यमिति // सङग्रहश्च कथमित्याह-दृश्येति / तविशेषार्थे यस्मादर्थे वा। विधिमग्न्यादेनिषेध व्यापकादेः / चकारो वाशब्दार्थे। ततस्तदव्यभिचारिविधिनिषेधाभिधानात् / न साक्षात् नाव्यवधानेन / अर्थान्तरविधिप्रतिषेधयोश्च दृश्यानुपलम्भाव्यभिचारित्वं कार्यकारणभावादिग्रहणकालप्रवृत्तदृश्यानुपलम्भस्मारकादि द्रष्टव्यम् / एष भे[55b]द इति स्वभावानुपलब्ध्यादिरूपः। कस्मात्तत्र वाच्य इत्याह शब्देति / हिर्यस्मात् / शब्दभेदस्त्रिरूपलिङ्गवाक्यनानात्वम् / यद्यप्येवं तथापि कथं तत्र वक्तव्य इत्याह-शब्दश्चेति / चो हेतौ। शास्त्रपरिपठितानामिति शास्त्रपरिपठितद्वारेण परिज्ञातानां स्वभावाद्यनुपलब्ध्यादिवाचकानां वाक्यानामिति द्रष्टव्यम् / उपलम्भो द्विविधो वाच्यरूपो वाचकरूपश्च / अत वित्तेनं च। तत्रार्थावर्त्तनं पुनः पुनश्चेतसि निवेशनम् / शब्दावर्त्तनं पुनः पुनरुच्चारणम् / - मूले स्वयंशब्द आत्मन इति षष्ठ्यर्थे वर्तमानो गृहीत इत्याशयेनाह--प्रतिपत्तुरात्मन इति। स्वार्थानुमानप्रस्तावात्प्रतिपत्तशब्देन यस्त्रिरूपेण लिङ्गेन परोक्षमर्थं प्रतिपद्यते स गृह्यते / अपिशब्दात्परोऽपि तस्मात्प्रतिपद्यत इति सम्बन्धनीयम् / मूले तु न केवलं परस्येति योजनीयम् / अनन्तरोक्तेन परिपठितस्वभावानुपलब्ध्यादिसूचितेन स्वभावानुपलब्ध्यादिप्रयोगक्रमेण / / यत इतिशब्दस्तस्मादर्थे तत्तस्माद् अयं वक्ष्यमाणोऽर्थः / तस्माच्छब्देन यस्माच्छब्दस्यान्वयाद्. यस्मादित्युक्तम् / अनेन स्वभावानुपलब्ध्यादिप्रयोगलक्षणेनोपायेन प्रतिपद्यत इत्याशङक्य पूर्वमेव स्मरयति प्रयोगाऽभ्यासादिति / स्यान्मतम् --न स्वयमुच्चरितः शब्दस्तत्प्रतिपत्तेनिमित्तम् / प्रतिपन्ने शब्दप्रयोगात् / अन्यथा प्रतिनियतप्रयोगायोगात् / तत्कथं पिष्टपेषणकारी शब्द उपायत्वेनोच्यत इति / नैतदस्ति। यतो लिङ्गदर्शनेनान्यतो वा निमित्तात्प्रबुद्धवासनो मन्दप्रचारार्थस्मरणोऽत्यन्ताभ्यस्तप्रयोगस्तथाविधप्रयोगमुच्चार्यैवं तत्त्वमवगाहमानस्तदर्थं प्रतिपद्यते-यथा कश्चिदभ्यासात्सति धर्मिणि धर्माणां लोके चिन्ता प्रवर्तत इत्युच्चार्यवास्यार्थं प्रतिपद्यते, तद्वत् त्रिरूपाख्यानं वाक्यमुच्चार्यैव कश्चिदभ्यस्तप्रयोगः परोक्षमर्थं प्रतिपद्यते / ततोऽयमुपायो भवत्येव / ततो परस्यापि प्रतीत्युदयात् परार्थानुमानमपि स्यादिति चेत् / भवतु। का क्षतिः ? स्वप्रतिपत्तिप्रयोजनं सत्स्वार्थानुमानं तदैव च तेनान्यः प्रतिपद्यत इति परप्रतिपत्तिप्रयोजनं सत् परार्थानुमानम् / अत एवमशब्दोऽपि कश्चिनियतोऽस्तीत्यवाचामेति / 'मनेन मेयेन-पाठ:-टि. 2 यत् पुनस्त्रिरूपं लिङ्गाख्यानम्-टि०