________________ 2. 43. 1. अनुपलब्धिप्रकाराणामन्तर्भावनिरूपणम् / ते स्वभावानुपलब्धौ संग्रहं 'तादात्म्येन गच्छन्ति / स्वभावानुपलब्धिस्वभावा' इत्यर्थः॥ ननु च स्वभावानुपलब्धिप्रयोगाद् भिद्यन्ते कार्यानुपलब्ध्यादयः। तत् कथमन्तर्भवन्ति ? इत्याह पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदेपि // 43 // प्रयोगभेदेपि-प्रयोगस्य शब्दव्यापारस्य भेदेपि अन्तर्भवन्ति / कथं प्रयोगभेद इत्याह-अर्थान्तरविधीति / "प्रतिषेध्यादर्थादर्थान्तरस्य विधिरुपलब्धिः स्वभावविरुद्धाधुपलब्धिप्रयोगेषु / प्रतिषेधः कार्यानुपलब्ध्यादिषु प्रयोगेषु। अर्थान्तरविधिना, अर्थान्तर केचित्तु नेहाप्रतिबद्धसामर्थ्यानि वह्निकारणानि सन्ति, तुषारस्पर्शादिति कार्यविरुद्धव्याप्तोपलब्धिमिच्छन्ति / नात्र धूमस्तुषारस्पर्शादिति कारणविरुद्धव्याप्तोपलब्धिमपीति // सा च प्रयोगभेदादेकादश प्रकारेति यदुक्तं तदसहमानश्चोदयति यदीति / अत्र द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुरित्यनेनैकः प्रतिषेधहेतुरुक्त इति चोदयितुराशयः / कार्येत्यादिना दशग्रहणस्य तात्पर्यार्थं व्याचष्टे / अपिशब्दः शङ्कायाम्। सर्वग्रहणस्यापि तात्पर्यार्थमाहतत्रेति वाक्योपन्यासे / अपिः पूर्ववत् / उदाहृत एवोदाहृतमात्राणि तेषाम् / अनेन द्रव्यकात्य॑वृत्तः सर्वशब्दो गृहीत इति दर्शितम् / तर्हि [55a] सर्वग्रहणमेवास्तु किं दशग्रहणेनेत्याह-दशेति / प्रयुक्तोदाहरणकात्स्न्यं गम्यतेति लोके 'सर्वे पदातू(त)योऽत्र योद्धारः' इत्यादौ सर्वशब्दस्योपदर्शितकात्य॑वृत्तस्य दर्शनादुक्तम् / यद्येवं दशग्रहणेऽप्येवं किं न स्यादित्याह-दशग्रहणादिति / तुर्दशग्रहणरहितपक्षाद् वैधर्म्यमाह / अतिरिच्यमानमधिकीभवद् गतार्थं सदिति यावत् उपदर्शिततुल्यावबोधाय * सम्पद्यते। .. स्यादेतत्-इमे सर्वे दशानुपलब्धिप्रयोगा इत्येतावतव कियतां ग्रहणप्रसङ्गो निराकृत - एवेति कथं कार्यानुपलब्ध्यादिग्रहणमाचार्यस्य नातिरिच्यते, कथं च धर्मोत्तरस्यैषा तात्पर्या र्थव्याख्या-तत्कियतामपि प्रसक्त आहेत्यपर्यालोचितव्याख्यानं भवतीति चेत् / नैष दोषः / तथाहि-प्राक्तनकादशग्रहणस्योपलक्षणार्थत्वेनान्येषामपि व्यापकविरुद्धव्याप्तोपलबध्यादिप्रयोगाणामभिमतत्वादाद्यान् कार्याऽनुपलब्ध्यादिप्रयोगान्विहाय दशसंख्यापूरणं कृतं भवत्येवेति तदाशङ्कानिवृत्त्यर्थं कार्यानुपलब्ध्यादिग्रहणं कृतमाचार्येण / धर्मोत्तरेणापि तथा व्याख्यातमिति / न तर्हि दशग्रहणं कर्त्तव्यमिति चेत् / न / अस्योपलक्षणार्थत्वाददोष एषः / 'तत्स्वाभाव्येन-टि० . स्वभावा आत्मोत्पादकाः / भावध्वनिरुत्पादकपर्यायः-टि. ३०मन्तर्भाव इत्याह-C 4 विधीत्यादि P.H. E.N. 5 प्रतिषेध्यादर्थान्तरस्य B