________________ 140 द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2.42 यद्येकः प्रतिषेधहेतुरुक्तः कथमेकादशाऽभावहेतव इत्याहइमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ संग्रहमुपयान्ति // 42 // 'इमे सर्वे इत्यादि / इमेऽनुपलब्धिप्रयोगाः / इदमानन्तरप्रक्रान्ता' निर्दिष्टाः / तत्र कियतामपि ग्रहणे प्रसक्त आह—कार्यानुपलब्ध्यादय इति / कार्यानुपलब्ध्यादीनामपि त्रयाणां चतुर्णा वा ग्रहणे प्रसक्त आह-दशेति / तत्र दशानामप्युदाहृतमात्राणां ग्रहणप्रसङ्ग सत्याह-सर्व इति / एतदुक्तं भवति–अप्रयक्ता अपि प्रयक्तोदाहरणसदशाश्च सर्व एवेति / दशग्रहणमन्तरेण सर्वग्रहणे क्रियमाणे प्रयुक्तोदाहरणकात्स्न्यं गम्येत। दशग्रहणात् 'तूदाहरण- - कात्स्न्येऽवगते सर्वग्रहणमतिरिच्यमानमुदाहृतसदशकात्स्या॑वगतये० १'जायते। प्रयोग: पुनरीदृशो वाच्यः-यत्र यत्कारणविरुद्धकार्यमस्ति तत्र तन्नास्ति / यथा रुदितविशेषे सति न स्मितविशेषः / रोमहर्षादिविशेषयुक्तपूरुषवत्त्वकारणशीतस्पर्शविरुद्धवह्निकार्यञ्चात्र धूम इति / एतदप्यत्यन्ताभ्यासाज्झटिति धूमदर्शनेन रोमहर्षादियुक्तपुरुषवत्त्वाभावप्रतीत्युदये सति कारणविरुद्धकार्योपलब्धिजमेकमनुमानमुक्तमाचार्येणेति द्रष्टव्यम् / अन्यथा तु कार्यहेतु-विरुद्धोपलम्भ-कारणानुपलम्भसम्भवानि त्रीण्यमून्यनुमानानि। तथा हि- तदेयं परिपाटि:-यत्र धूमस्तत्राग्निरिति कार्यहेतुजमेकमनुमानम् / यत्र वह्निर्न तत्र शीतस्पर्श इति विरुद्धोपलम्भजं द्वितीयम् / यत्र शीतस्पर्शाभावो न तत्र तत्कार्यरोमहर्षादिविशेषयुक्तपुरुषभाव इति कारणानपलम्भनं तृतीयमिति / एते च प्रकारा अनुपलब्धरुपलक्षणं वेदितव्याः / अन्यासामपि विधानसम्भवात् / तथाहि व्यापकविरुद्धकार्योपलब्धिरप्यस्ति—यथा नात्र तुषारस्पर्शो धूमादिति / कार्यविरुद्धकार्योपलब्धिरप्यस्ति / यथा—नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति / व्यापकविरुद्धव्याप्तोपलब्धिरप्यस्ति-यथा नायं नित्यः कदाचित्कार्यकारित्वादिति। प्रतिषेध्यस्य नित्यत्वस्य व्यापकं निरतिशयत्वम् / तस्य विरुद्धं सातिशयत्वम् / तेन व्याप्तं कदाचित्कार्यकारित्वमिति। आसाञ्च यथास्वं यथायोगं प्रयोगाः स्ययमूह्याः / / 1 'इमे सर्वे इत्यादि' नास्ति-H. N. इम इत्यादि A. B.D. E. P. 2 0 न्तरप्रयोगान्ता H. E. .न्तरप्रयोक्तांन नि० A. 3 प्रसक्ते सत्या P. H. E.N. प्रसक्तेत्याह A. 4 'तत्र' नास्ति -A. B. P. H. E. N. ५०ले आह-B 6 भवति / प्रयुक्ता C 7 गम्यते ABCDPHEN 8 दशग्रहणोदाहरण• B 9 0 दाहृतका० 0 याधिगतये C . जातम् E