________________ 2.41.]. अनुपलब्धिप्रकारनिरूपणम् / 139 ___ 'रोमहर्षादिविशेषस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः / कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः। वस्तु प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्या। त्रयाणामप्यदृश्यत्वेऽयं प्रयोगः। तस्मादभावसाधनोऽयम् / तत्र दूरस्थस्य प्रतिपत्तुर्दहनशीतस्पर्शरोमहर्षादिविशेषा अप्रत्यक्षाः सन्तोपि, धूमस्तु प्रत्यक्षो यत्र, तत्रतत् प्रमाणम् / धूमस्तु यादृशस्तद्देशे स्थितं शीतं निवर्तयितुं समर्थस्य वह्वेरनुमापकः स इह ग्राह्यः। धूममात्रेण 'तु वह्निमात्रेऽनुमितेपि न शीतस्पर्शनिवृत्तिः, नापि रोमहर्षादिविशेषनिवृत्तिरवसातुं शक्येति न धूममात्रं हेतुरिति द्रष्टव्यमिति // यस्मिन् वल्मीके, लोहितः शालियस्मिन् ग्रामे, गौरः खरो यस्मिन्नरण्य इति बहुव्रीहिणा भवितव्यम् / ततश्च कृष्णसर्पवान् वल्मीको, लोहितशालिमान् ग्रामः, गौरखरवदरण्य मिति न स्यात् / साधवश्चामी प्रयोगास्तत्कथमनेनैवं व्याख्यातमिति चेत् / नैष दोषः। यस्मात् "कर्मधारयमत्वर्थीयाद बहब्रीहिर्लाघवेन" इतीदं वचनं संज्ञाशब्दं वर्जयित्वा वेदितव्यम्। संज्ञाशब्दाश्चैते कृष्णसर्पलोहितशालि-गौरखरशब्दा इति साधूक्तं योगो युक्तमिति। रोमहर्षादिविशेषयुक्तमिति रोमहर्षादिविशेषयोग इत्यर्थः। तस्य तयुक्तस्य तदयोगस्य सम्बन्धी। सम्बन्धीत्यनेन सम्बन्धषष्ठीयं समस्यत इति दर्शयति / यतोऽयं रोमहर्षादिविशेषयोग: स्वात्मना पुरुषं व्यवच्छिनत्ति। ततो व्यवच्छेदकः सन्पुरुषं स्वसम्बन्धिनमुपपादयति / कदाऽयं प्रयोगो द्रष्टव्य इत्याह-त्रयाणिमिति वह्निशीतस्पर्शरोमहर्षादिविशेषाणाम् / अपिरवधारणे। कस्मादेवमित्याह-रोमहर्षादिविशेषस्येत्यादि / हिशब्दार्थश्चात्रार्थाद् द्रष्टव्यः / यत एवं तस्मात् / [54b] अयमित्ययमपीति द्रष्टव्यम् / __ क्व पुनस्त्रयाणामप्रत्यक्षत्वं धूमस्य तु प्रत्यक्षत्वमित्याह-तत्रेति वाक्योपक्षेपे। विद्यमाना अप्यप्रत्यक्षा यद्यभविष्यन्, नियतमुपालप्स्यन्तेति सम्भावनामतिवृत्ताः / दूरस्थस्येति हेतुभावेन विशेषणम् / ततोऽयमर्थः-दूरस्थत्वात् प्रतिपत्तुस्ते सन्तोऽप्यप्रत्यक्षा इति / तत्र स्थाने। एतत् कारणविरुद्धकार्यरूपं साधनं प्रमाणमित्यनुमानाख्यप्रमाणजनकत्वात् / अदूरस्थत्वे तु प्रतिपत्तुः प्राकारादिव्यवहितोद्देशेऽयं प्रयोगो द्रष्टव्यः / धूमशब्देन विशिष्टो धूमो विवक्षित इति दर्शयति-धूमस्त्विति / तुशब्दो विशेषार्थः / एतदेव व्यतिरेकमुखेण द्रढयन्नाह-धूममात्रेणेति / तुः पूर्वस्माद् वैधर्म्यमाह / इतिहेतौ। द्वितीय इतिरेवमर्थः / . 1 रोमहर्षविशेष DB 2 वह्ने प्रत्य० CD यत्र A 4 यादृशस्तस्मिन्देशे A.C. P. H. E. N. 'तु' नास्ति-A हर्षादिनिवृत्ति DB शक्यत इति C शक्येति धूम A शक्यते न धू० H