________________ 138 द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2.41. दहनं पश्यति। शीतस्पर्शस्त्वदृश्यो रोमहर्षादिविशेषाश्च / तेषां कारणविरुद्धोपलब्ध्याऽभावं' प्रतिपद्यत इति तत्रास्य प्रयोग इति / कारणविरुद्धकार्योपलब्धियथान रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशः, धूमादिति // 41 // प्रतिषेध्यस्य यत् कारणं तस्य यद् विरुद्धं तस्य यत् कार्य तस्योपलब्धिरुवाहर्तव्यायथेति / अयं प्रदेश इति धर्मी। योगो युक्तम् / रोमहर्षादिविशेषैर्युक्तं रोमहर्षादिविशेषयुक्तम् / तस्य संबंधी पुरुषो रोमहर्षादिविशेषयुक्तपुरुषः। तद्वान् न भवतीति साध्यम् / धूमादिति हेतुः / किं [54a] शीतनिवर्त्तनाऽक्षमोऽप्यस्ति दहनो येन ततो विशिष्यत इत्याह-कश्चिदिति / / सन्निहितो वहनविशेषो यस्येति विगृह्णन् “सन्निहितश्चासौ दहनविशेषश्चेति" यदन्येन व्याख्यातं .. तदपहस्तयति / तदा हि व्यधिकरणासिद्धो हेतुः स्यादिति / क्व पुनरस्याः प्रयोग इत्याह-यत्रेति / - ननु शीतस्पर्शरोमहर्षविशेषाणामदृश्यत्वे कथं वह्नदृश्यत्वमित्याह-रूपेति / हिर्यस्मात् / इतिरेवमनन्तरोक्तेन न्यायेन। तत्र विशेषेऽस्य कारणविरुद्धोपलम्भस्य। एष तु प्रयोगोऽभिधानीयः-यत्र यत्कारणविरुद्धमस्ति न तत्तत्रास्ति / यथा श्लेष्मविरुद्ध पित्ते न श्लैष्मिको व्याधिः। अस्ति च रोमहर्षादिकारणविरुद्धो वह्निरत्रेति / एतदप्यत्यन्ताभ्यासाज्झटिति सन्निहितदहनविशेषत्वावगममात्रे रोमहर्षादिविशेषाभावप्रतीत्युदये सत्येकमाचार्येणोक्तम् / धर्मोत्तरेणापि तथा व्याख्यायत इति द्रष्टव्यम्। अन्यथा तु विरुद्धोपलम्भ-कारणानुपलम्भसम्भवे द्वे इमे अनुमाने / तथा हि-यत्र वह्निन तत्र शीतस्पर्श इति विरुद्धोपलम्भजमेकमनुमानम् / यत्र शीतस्पर्शाभावो न तत्र तत्कार्यरोमहर्षादीति कारणानुपलम्भनं द्वितीयमिति // प्रतिषेध्यस्येत्यादिना कारणविरुद्धकार्योपलब्धि व्याचष्टे / पूर्ववद् धादिप्रदर्शनम् / रोमहर्षादिविशेषैर्युक्तश्चासौ पुरुषश्चेति कर्मधारयं कृत्वा स विद्यते यत्र स तद्वानिति शान्तभद्रेण व्याख्यातम् / तच्चावद्यम् / यतः "कर्मधारयमत्त्व याद् बहुव्रीहिरेव लाघवेन" इति वचनाद् रोमहर्षादिविशेषयुक्तः पुरुषो यत्रेत्येवं विशिष्ट प्रदेशेऽवगते किं मत्त्व येनेति मन्यमानो महावैयाकरणोऽयं धर्मोत्तरः प्राहः योगो युक्तमिति भावे निष्ठा। यद्येवं कृष्णः सर्पो - ' भावः प्रति P H E N भाव प्रति A तत्रास्याः प्रयोग०-A. B. C. D. P. H. E. N. 3 अयं देश इति A PH E N 4 ०हर्षविशेष० C 'रोमहर्षादिविशेषयुक्तम्' नास्ति-B 5 'पुरुषो' नास्ति-C 6 विशेषगुणयुक्तः B