________________ 2. 40.] अनुपलब्धिप्रकारनिरूपणम् / 137 कारणविरुद्धोपलब्धिर्यथा नास्य रोमहर्षादिविशेषाः, सनिहितदहनविशेषत्वादिति // 40 // प्रतिषेध्यस्य यत् कारणं तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम् यथेति / अस्येति धर्मी। रोम्णां हर्ष उद्धवः। स आदिर्येषां दन्तवीणादीनां शीतकृलानाम, ते विशिष्यन्ते तदन्येभ्यो भयश्रद्धादिकृतेभ्य इति रोमहर्षादिविशेषाः / ते न सन्तीति साध्यम्। दहन एव विशिष्यते तदन्यस्माद्दहनाच्छीतनिवर्तनसामर्थ्येने ति दहनविशेषः / कश्चिद् दहनः सन्नपि न शीतनिवर्तनक्षमो यथा प्रदीपः। तादृशनिवृत्तये विशषग्रहणम् / सन्निहितो दहनविशेषो यस्य स तथोक्तः / तस्य भावस्तस्मादिति हेतुः। यत्र शीतस्पर्शः सन्नप्यदृश्यो रोमहर्षादिविशेषाश्चादृश्याः, तत्रायं प्रयोगः। रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्या। शीतस्पर्शस्य दश्यत्वे कारणानुपलब्धिः / तस्मादभावसाधनोऽयम् / रूपविशेषाद्धि दूराव तथा तस्योद्गम ऊर्ध्वं गमनं यस्मिन् यस्माद वा स तथा। कालविशेषेऽप्यस्याः प्रयोग इति दर्शयति विरले / सन्ध्याकालोचितं तमः सन्ध्यातमः तस्मिन् विरले मन्दप्रचारे। * कुत्र ? हृदे तथाविधे च तमसि सति / इतिस्तस्माद् / वढेरपि तत्रेयं गतिर्भविष्यतीत्याहवह्निस्त्विति / तुः पूर्ववत् / अम्भस इति षष्ठी पुन: “षष्ठयतसर्थे" [पाणिनि २-३-३०]त्यादिना उपरिशब्दस्यातसर्थप्रत्ययान्तत्वात् / तथाहि ऊवं [ज़] शब्दाद् 'उपर्युपरिष्टाद्" [पाणिनि ५-३-३१]इतिरित्प्रत्ययो निपातितः / तेनैव सूत्रेणोवंशब्दस्योपादेशोऽपि / प्लवमानोऽवतिष्ठमानः / अनेकार्थत्वाद् धातोर्गच्छन्निति वा / स्वरूपेण ज्वालारूपेणाधाररूपेणेन्धननिविष्टेन / इतितौ। तत्र तस्मिन् स्थानविशेषे। अस्य कारणानुपलम्भस्य / तमिस्रायामेव तु रात्रौ निराधारके प्रदेशे कारणानुपलब्धेः प्रयोगः सुकरस्तत्र वह्नद्देश्यत्वाद् धूमस्य सतोऽप्यदृश्यत्वात् / अनेन पुनरेवंविधं विषयं परित्यज्यान्यं विषयमुपपादयता * किमित्यात्माऽऽयासित इति न प्रतीमः / __ एवं तु प्रयोगः कार्यः यत्र यस्य कारणं नास्ति न तत्तत्रास्ति / यथा बीजाभावेऽङकुरः / नास्ति चात्र धूमस्य कारणं वह्निरिति / एतेन यत्र यत्र विज्ञानस्य कारणं विज्ञानं नास्ति न तत्र विज्ञानमुपपद्यते। यथोपलशकले। नास्ति च प्राग्भवीयं विज्ञानं कललावस्थायामिति कारणानुपलब्धिप्रसङ्गः सूचितस्तुल्यन्यायार्थः / / कारणविरुद्धोपलब्धिं व्याख्यातुमाह प्रतिषेध्यस्येति / पूर्ववद् धादिप्रदर्शनम् / उद्भेदः पुलक इत्यर्थः / दन्तवीणाऽधरोपरिस्थितदन्तपङिक्तभ्यां सत्वरमभिहन्यमानाभ्यां........ कटकटकरणम्। आदिशब्देन शरीरकम्पस्य ग्रहणम्। 'सुखादीत्यादिग्रहेण हर्षवीररसयोर्ग्रहणम् / . विशेष्यन्ते B 5 विशेष्यन्तेऽन्यस्मा० B विशिष्यतेऽन्यस्मा० C D 1 टीकायां नास्ति सुखादीति पाठ:-सं० 17