________________ द्वितीयः स्वार्थानुमानपरिच्छेदः / [2.39. इति साध्यम् / वह्नयभावादिति हेतुः। यत्र कार्य सदपि 'अदृश्यं भवति तत्रायं प्रयोगः / दृश्ये तु कार्ये दृश्यानुपलब्धिर्गमिका / ततोऽयमप्यभावसाधनः / निष्कम्पायतसलिलपूरिते ह्रदे हेमन्तोचितबाष्पोद्गमे विरले सन्ध्यातमसि सति सन्नपि तत्र धूमो न दृश्यत' इति कारणानुपलब्ध्या प्रतिषेध्यते। वह्निस्तु यदि तस्याम्भस उपरि प्लवमानो भवेत् प्रज्वलितो, रूपविशेषादेवोपलब्धो भवेत् / अज्वलितस्तु 'इन्धनमध्यनिविष्टो भवेत् / तत्रापि दहनाधिकरणमिन्धनं प्रत्यक्षमिति स्वरूपेण, आधाररूपेण वा दृश्य एव वह्निरिति तत्रास्य प्रयोग 1 इति // व्यापकविरुद्धोपलब्धि व्याख्यातुमाह-प्रतिषेध्येत्यादि / पूर्ववद् धादिप्रदर्शनम् / अत्रापि विशिष्टाद् वह्नरिति द्रष्टव्यम् / अस्यापि प्रयोगविषयमाह-योति। कथं तयोरदृश्यत्वम् , वह्नश्च दृश्यत्वम् , कथं च न शीतस्पर्श एव तुषारस्पर्श इत्याशङ्कात्रितयमपाकुर्वन्नाह-दूरेति / चो हेतौ नियमे वा। तयोर्भेदमुपपादयति तुषारेति / शीतमात्रमशीतव्यावृत्तिमात्रम् / ततः शीतमात्राऽभावात् / शीतविशेषश्चासौ तुषारस्पर्शश्चेति विग्रहः / / कथं तदभावनिश्चय इत्याह-शीतविशेषस्येति / एष च' वास्तवो निवृत्तिक्रमः परामर्शदशायां दर्शितो न तु तत्प्रयोग[53b]कालिकः / तथात्वे हि नैकमनुमानमिदं स्यात् / इतीत्यादिनोपसंहरति / इतिरेवमर्थे। तस्मादर्थे वा / एतेन यद् यत्र नियतसहोपलम्भं तत्ततो न भिद्यते / यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमा / नियतसहोपलम्भस्तु नीलादिर्तानेनेत्यादि दर्शितं द्रष्टव्यम् // कारणानुपलब्धि विवरिषुराह–प्रतिषेध्येति / नन द्वयोरपि तुल्यस्वज्ञानजननयोग्यतारूपत्वात तल्यदश्यत्वमिति कथमस्याः प्रयोग इत्याशङक्य विषयमस्या दर्शयितुं यत्रेत्यादिनोपक्रमते / ननु मनोमोदकोपयोगमात्रमेतत् न पुनरीदृशो विषयोऽस्ति यत्राग्निरेव दृश्यो न धूम इति कथं पूर्वोक्तातिक्रम इत्याह-निष्कम्पेति। हृदो जलाधारविशेषः। निर्गतः कम्पश्चलनं यस्मात्स तथा। स चासावायतो महानिति तथा। स चासौ सलिलपूरितश्चेत्येवं विग्रहः कार्यः / आयतग्रहणेन हृदस्य महत्त्वाद् बाष्पे भूयस्त्वमत एवं धूमस्य ततो भेदेनानुपलक्षणमिति दर्शयति / पुनः किं विशिष्टे ? हेमन्ते हेमन्तसंज्ञके काले / उचितोऽधिकृतश्चासौ बाष्पश्चेति 1 सदपि न दृश्यं भवति C सदपि दृश्यं न भवति A. P. H. E. N. 2 ०साधक: C / दृश्य इति A. P. H. E. N. 4 प्रतिषिध्यते B 5 भवेज्ज्वलितो रूप. A. P. H. N. भवेज्ज्वलितरूप. E 6 तु वनमध्य० B 7 दृश्यमानरूप एव C 8 तत्रास्याः प्रयोगः A. B.C.D. P. H. E. N. 9 'इति' नास्ति A. B. P. H. E, N. . .