________________ 2. 38.] अनुपलब्धिप्रकारनिरूपणम् / ध्यापकविरुद्धोपलब्धिर्यथा नात्र तुषारस्पों 'वरिति // 38 // प्रतिषेध्यस्य यन् व्यापकं तेन यद् विरुद्धं तस्योपलब्धिबाहर्तव्या यथेति। अत्रेति धर्मी। तुषारस्पर्शो नेति साध्यम् / 2 वर्तरिति हेतुः / यत्र व्याप्यस्तुषारस्पर्शो व्यापकश्च शीतस्पशों न वृश्यस्तत्रायं हेतुः। तयोर्दश्यत्वे' स्वभावस्य व्यापकस्य चानुपलब्धिर्यतः प्रयोक्तव्या। तथा च सत्यभावसाधनीयम् / दूरवर्तिनश्च प्रतिपत्तुस्तुषारस्पर्शः शीतस्पर्शविशेषः, शीतमात्रं च परोक्षम्। वह्विस्तु रूपविशेषाद दूरस्थोपि प्रत्यक्षः। ततो वह शीतमात्राभावः / ततः शीतविशेषतुषारस्पर्शाभावनिश्चयः। शीतविशेषस्य शीतसामान्येन व्याप्तत्वादिति ९विशिष्टविषयेऽस्याः प्रयोगः // कारणानुपलब्धिर्यथा नात्र धूमो ' वह्नयभावादिति // 36 // प्रतिषेध्यस्य यत् कारणं तस्यानुपलब्धेरुदाहरणं यथेति / अत्रेति धर्मी। न धूम कीदृशि विषयेऽस्याः प्रयोग इत्याह–पत्रेति। न केवलं पूर्व इत्यपिशब्दः / अभावोऽभावव्यवहारश्चाभावशब्देनोक्तः / स्यान्मतम् / कथं पुनः शीतस्पर्शशीसकारणेऽदृश्ये वह्निस्तु दृश्यः सम्भवति येमास्याः प्रयोगो घटत इत्याह-यस्मिन्निति। उद्देशे प्रदेशे प्रतिपत्तईरस्वत्वादिति शीतस्पर्शशीतकारणयोरदृश्यत्वे कारणम् / भास्वरवर्णत्वादिति वह्नदृश्यत्वे निबन्धनम् / भास्वरो भासनशीको वर्णो यस्य तद्भावस्तस्मात् / न केवलं निकट इत्यपिशब्दः / तत्र तस्मिन् देशे। . प्रयोगः पुनरेवं कार्य:-यत्र विशिष्टो वह्निर्न तत्र शीतोपजननाप्रतिबद्धशक्तीनि शीतकारणानि। यथा क्वचिदनुभूते प्रदेशे। तथाभूतश्चात्र वह्निरिति / एतच्चाभ्यासाज्झटिति वह्निदर्शनेन तथाभूतशीतकारणाभावप्रतीतिजन्मन्येकं कार्यविरुद्धोपलम्भजमनुमानमुक्तमाचार्येणेति द्रष्टव्यम् / अन्यथा तु विरुद्धोपलम्भ-कार्यानुपलम्भजे द्वे एते अनुमाने। तथा हि यत्र वह्निर्न तत्र शीतस्पर्श इति स्वभावविरुद्धोपलम्भजमेकमनुमानम् / यत्र च यत्कार्यं नास्ति, न तत्र तत्कारणं तज्जननाप्रतिबद्धसामर्थ्यमस्तीति कार्यानुपलम्भनं द्वितीयमिति // 'अग्नेरिति B.C.P.H.N.E. 2 अम्नेरिति D.B. या प्रतिषेध्यतुषार.C 4 व्यापकं च शी.D 5 यथासंख्यम्-टि. . 6 प्रयोगश्चैवम्-नात्र तुषारस्पर्शः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः / मात्र तुषार' स्पर्शः, शीतस्पर्शाभावात् / 7 'च' नास्ति B. P.E. 'च' नास्ति B 9 विशिष्टे विष. B 1. अग्न्यभावादिति / B. D. P.H.N. अग्न्यभावाल E .