________________ द्वितीयः स्वार्थामुमामपरिच्छेदः / [ 2. 37. कार्यविरुद्धोपलब्धियथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति, 'वह्वेरिति // 37 // . प्रतिषेध्यस्थ यत् कार्य तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम्-यथेति। इहेति धर्मी। अप्रतिबद्धं सामथ्यं वा शीतकारणानां शीलजननं प्रति', तानि न सन्ति इति साध्यम् / वह्वेरिति हेतुः। यत्र शीतकारणानि अदृश्यानि, शीतस्पर्शोऽप्यदृश्यः, तत्राय हेतुः प्रयोक्तव्यः। दृश्यत्वे तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिर्दश्यानुपलब्धिर्वा गमिका / तस्मादेषाप्यभावसाधनी। ततो यस्मिन् 'उद्देशे सदपि शीतकारणमदृश्यं शीतस्पर्शश्च' दूरस्थत्वात् प्रतिपतुर्वलि स्वरवर्णत्वाद् दूरादपि दृश्यस्तत्रायं प्रयोग इति // वाशब्दार्थश्चकार इति केचित् / भग्ये तु 'अवस्तुनोऽदृश्यत्वस्य सिद्धत्वात् किं तदनुवादेन कार्यम् ? ततो द्वयमप्येतद् वस्त्वपेक्षया योज्यम्। वस्तुनोदृश्यस्य घटादेः, अदृश्यस्य पिशाचादेः। अन्यथा पिशाचादिवस्तुनस्तथास्वं नोक्तं स्यात् / प्रकृतं च तदेव' इति प्रतिपन्नाः / भवत्वेवं ततः किं सिद्धमित्याह-तथा च सतीति / तद्वद् घटवत् / अन्य[53a]त्र अन्यस्मिन् दृश्यमाने वस्तुनि / ननु भवतु दृश्यानुपलम्भाद् दृश्यमानेगुल्यादौ सर्वस्य सुमेर्वादेस्तावात्म्यनिषेधस्तथाप्युक्तास्वनुपलब्धिषु कुत्रायमन्तर्भवतीत्याशङ्कामपाकर्तुमुपसंहारव्याजेनातिदेशमप्याह-एवमिति / एवंजातीयकस्यैवंप्रकारवतः / एवंप्रकारस्येत्युक्ते वचन (वचनलभ्यं?) स्यात् / तत्रान्तर्भावो . दर्शित एवेति भावः / अथ यदि दृश्यानुपलम्भादन्यत्रान्यस्य दृश्यस्यादृश्यस्य वा तादात्म्यनिषेधः कथं विरुद्ध(ख)व्याप्तोपलब्धेरवतार इति चेत्। न दोषः। विरोधप्रतिपत्तिकाले दृश्यानुपलंम्भस्य व्यापारात। तदवगतविरोधेन तु व्याप्तं यत्र दृश्यते विरुद्धव्याप्तोपलम्भादेव विवक्षिताभावप्रतीतिरिति किमवद्यम् // प्रतिषेध्यस्येत्यादिना कार्यविरुद्धोपलब्धि विवृणोति / पूर्ववद् धादिप्रदर्शनम् बढेरिति शीतनिवर्तनक्षमाद् विशिष्टादिति द्रष्टव्यम् / अन्यथा प्रति (दी)पाद्यात्मनः शीतानिवर्तकत्वेनानकान्तिकतापत्तेः। ' अग्नेरिति-B.C. P. H. E. N. 2 प्रति न तानि सन्ति इति-A. P. H. E.N. 3 देशे A. B.C,D. P. H E.N. 4 अदृश्यः-टि० 5 'इति' नास्ति A. B. P.H.E.N.