________________ 2. 36. ] . अनुपलब्धिप्रकारनिरूपणम् / कत्वनिषेधः क्रियते दृश्यात्मक त्वमभ्युपगम्य कर्तव्यः। यद्ययं घटो दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृष्टो भवेत् / न च दृष्टः। तस्मात् न पिशाच इति / दृश्यात्मत्वाभ्युपगमपूर्वको दृश्यमाने घटादौ3 वस्तुनि वस्तुनोऽवस्तुनो वा दृश्यस्यादृश्यस्य च तादात्म्य प्रतिषेधः। तथा च सति यथा घटस्य दृश्यत्वमभ्युपगम्य "प्रतिषेधो दृश्यानुपलम्भादेव तद्वत् सर्वस्य परस्परपरिहारवतोऽन्यत्र दृश्यमाने निषेधो दृश्यानुपलम्भादेव / तथा 'चास्यैवंजातीयकस्य प्रयोगस्य स्वभावानुपलब्धावन्तर्भावः // योजनीयः / यद्वा प्रागभावस्यानादेरजातस्यापि नाशमवश्यम्भाविनं केचिदिच्छन्तीति तदपेक्षयाऽपिशब्दः समुच्च तन्मद्गराद्यवेक्षते विनश्वरो विनंष्टुमिति शेषः। तस्य हेत्वन्तररस्य / __ प्रयोगः पुनरीदृशः कर्त्तव्यः यद्यदवस्थाप्राप्तौ हेत्वन्तरमपेक्षते न तदवश्यं तद्रूपं भवति / यथा वस्त्रं रक्तरूपतापत्तौ रागद्रव्यसंयोगापेक्षं नावश्यं रक्तं भवति / अपेक्षते च भावो विनंष्टुं हेत्वन्तरमिति विरुद्धव्याप्तोपलब्धिप्रसङ्ग एषः। अत एव मूलेऽपिशब्द: प्रसङ्गसाधनत्वप्रसङ्गार्थो लक्ष्यते। स्वतन्त्रसाधनं तु विरुद्धव्याप्तोपलम्भाख्यमेवं द्रष्टव्यम्-यो विरुद्धधर्मसंसर्गवान्नासावेको यथा द्रवकठिने / विरुद्धधर्मसंसर्गवांश्च सामान्यादिरिति / / ननु च कोऽर्थयोविरोधः, किञ्चास्य विरोधस्य साधकं प्रमाणमित्याशङ्कामपाकर्तुमाह-इहेति / नित्यत्वशब्देनावश्यंभावित्वम्, अनित्यत्वशब्देनाऽनवश्यंभावित्वमुक्तं द्रष्टव्यम् / अन्यथा केन नित्यो विनाशोऽभ्युपेतो येनास्याऽनित्यतापोद्येत / यच्च पूर्व ध्रुवभावित्वशब्दं विवृण्वताऽनेन ध्रुवमवश्यं भवतीति विवृतं तच्च व्याहन्येत / सम्प्रति विरोधमुपपादयति-नित्यानित्ययोरिति / चो हेतौ। - इदानीं परस्परपरिहारस्थितलक्षणविरोधव्यवस्थापकं दृश्यानुपलम्भं दर्शयितुमाहतथा चेति / कथं दृश्यतयाऽभ्युप[ग]तस्य निषेध इत्याह—यत इति / एवं वक्ष्यमाणेन प्रकारेण / . तमेवाह-यद्ययमिति। न च नैवं नित्यरूपोऽवश्यंभाविस्वरूपो दृश्यते प्रतीयते। यद्यप्येवं तथापि दृश्यात्मकाभ्युपगम इत्याह-एवमिति / चो यस्मात् / एवमनन्तरोक्तेन क्रमेण. दृश्यमानस्यादृश्येनावस्तुनाऽन्योन्यपरिहारस्थितलक्षणविरोधव्यवस्थायां तावदेवं दृश्यानुपलम्भ उपायः / वस्तुनाऽप्यदृश्येन तथात्वव्यवस्थायामयमेवोपाय इति दर्शयितुं वस्तुनोऽपीत्यादिनोपक्रमते। न केवलं कल्पितस्यावस्तुन इत्यपिशब्दः / इतिर्हेतावेवमर्थे वा / दृश्यस्यति वस्त्वपेक्षया। 1 ०त्मत्वं० A. P. H. E. N. 2 यद्ययं दृश्य० A. P. H. E. N. 3 ०माने वस्तुनि घटादौ C 4 निषेधः A. B. P. H. E. N. 5 निषेधः B 'तादात्म्यनिषेधसंसूचकस्य व्यापकानुपलब्धिप्रयोगस्य / स च एवं-नित्यस्य सत्ता स्थिरोपलम्भत्वेन व्याप्ता। तस्य स्थिरोपलम्भविषयत्वस्य तत्र घटादौ अनुपलब्ध्या नित्यसत्ताया व्याप्तायाः] निषेध:-टि०