________________ 132 द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2. 36. भूतस्यापि भावस्येति धर्मिविशेषणम् / भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यंभावी, किमुताजातस्येति अपिशब्दार्थः / 'जनकाद्धेतोरन्यो हेतुः हेत्वन्तरं मुद्गरादि / तदपेक्षते विनश्वरः / तस्यापेक्षणादिति हेतुः। हेत्वन्तरापेक्षणं "नामाध्रुवभावित्वेन व्याप्तं यथा वाससि रागस्य "रजनादिहेत्वन्तरापेक्षणमध्रवभावित्वेन व्याप्तम् / ध्रुवभावित्वविरुद्धं चाध्रुवभावित्वम् / विनाशश्च विनश्वरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः। ततो विरुद्धव्याप्तहेत्वन्तरापेक्षणदर्शनाद् धृवभावित्वनिषेधः। इह ध्रुवभावित्वं नित्यत्वम्, अध्रवभावित्वं चानित्यत्वम् / नित्यत्वानित्यत्वयोश्च परस्परपरिहारेणावस्थानादेकत्र विरोधः। तथा च सति परस्परपरिहारवतोद्वयोर्यदैकं दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः। तादात्म्यनिषेधश्च 'दृश्यतयाऽभ्युपगतस्य संभवति / यत एवं तादात्म्यनिषेधः क्रियते-'यद्ययं दृश्यमानो नित्यो भवेन्नित्यरूपो दृश्येत। न च नित्यरूपो दृश्यते। तस्मान्न नित्यः।' एवं च प्रतिषेध्यस्य नित्यत्वस्य दृश्यमाना"त्मकत्वमभ्युपगम्य प्रतिषेधः कृतो भवति। "वस्तुनोऽप्यदृश्यस्य पिशाचादेर्यदि दृश्यघटात्म' 4. पुनरज्ञातेऽनुमाने कार्यलिङ्गजविरुद्धोपलम्भजे भवतः / तथाहि--यत्र धूमस्तत्र सर्वत्र वह्निर्यथाऽयस्कारकुट्याम्, धूमश्चात्रेति कार्यलिङ्गजमेकमत्र नियतप्राग्भावि, तदनु यत्र वह्निर्न तत्र शीतस्पर्शो यथा रसवतीप्रदेशे, वह्निश्चात्रेति विरुद्धोपलम्भनं द्वितीयमिति / / प्रतिषेध्यस्येत्यादिना विरुद्धव्याप्तोपलब्धि [52b] व्याचष्टे / पूर्ववत्साध्यादिप्रदर्शनम् / किमुतेति निपातसमुदायः किम्पुनरित्यस्यार्थे वर्त्तते / ननु किमत्र तस्यापि वस्तुनो नाशमवश्यं भाविनं केचिदिच्छन्ति येनापिशब्दः समुच्चय व्याख्यायत इति ? नैष दोषः / अजातस्य तावदनिष्टत्वादेव नावश्यम्भावी विनाशः, जातस्यापि नावश्यंभावीतीत्थं मूलेऽपिशब्दः। केवलं किमताजातस्येति व्याचक्षाणेन धर्मोत्तरेणायमर्थो न व्यक्तीकृतः / तत्रापि किम्पुनरजातस्य यस्य विनाश एव नेष्ट इत्यभिप्रायेण 1 जननाद् A. P. H. E. . मुद्गरादि:C . विनश्वरस्यापेक्ष० A . पेक्षणं नाध्रुव० B . 5 राजकादि० B.C.D. 'व्याप्तं तद्वद् / ध्रुव०-C. ७'च' नास्ति BD ' स्वभावानुपलब्धिरूपता स्यात् / स्वभावानुपलब्धिरूपा चाभ्युपेता पूर्वाचार्यरित्याह-टि. ............ .. . 9 धश्च तयाभ्य० A 10 य एवं-A " दृश्यमानात्मत्वमभ्यु A. P. H. E. N. 11 अथ न वस्त्वेकत्वविरोधोऽनयोः परं यो निषेधो ध्रुवभावित्वस्य विधीयते स / यद्यया (?) दृश्यत्वे सति पूर्वानुपलब्धिष्विव भवेत् तदा नास्यानुपलब्धेः। अथ भवतु नित्यत्वस्यावस्तुन एवं निषेधः पिशाचादीनां तु सतां कथं निषेध इत्याह-टि. 13 यदैव B 14 ०त्मत्वं० A. P. H. E. N.