SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 2.36.]. अनुपलब्धिप्रकारनिरूपणम् / 131 स्यात् तत्र दृश्यानुपलब्धिर्गमिका। यत्र विरुद्धो वह्निः प्रत्यक्षः, तत्र विरुद्धोपलब्धिर्गमिका'। द्वयोरपि तु परोक्षल्वे विरुद्धकार्योपलब्धिः प्रयुज्यते। उतत्र समस्तापवरकस्थं शीतं निवर्तयितुं समर्थस्याग्नेरनुमापकं यदा विशिष्टं धूमकलापं निर्यान्तमपवरकात पश्यति, तदा विशिष्टाद्वहरनमितात् शीतस्पर्शनिवृत्तिमनमिमीते। इह दृश्यमानद्वारप्रदेशसहितः 'सर्वोऽपवरकाभ्यन्तरदेशो धर्मी साध्यप्रतिपत्त्यनुसरणात् पूर्ववद्द्रष्टव्य इति // विरुद्धव्याप्तोपलब्धिर्यथा न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षणादिति // 36 // प्रतिषेध्यस्य यद् विरुद्धं तेन व्याप्तस्य धर्मान्तरस्य उपलब्धिरुदाहर्तव्या। यथेति / ध्रुवम् अवश्यं भवतीति ध्रुवभावी नेति ध्रवभावित्वनिषेधः९ साध्यः / विनाशो धर्मी / कस्मिन्नियं प्रयोक्तव्येत्याह-यत्रेति / द्वयोविरुद्धशीतस्पर्शयोः। अपिरवधारणे / तुः पूर्वस्माद् वैधयें। कः पुनरीदृशो विषय इत्याह-तत्रेति / ननु च प्रदीपशिखाप्रभावे (भवे) धूमेऽपि न शीतस्पर्शाभावः, तत्कथमियं गमिकेत्याहसमस्तेति / १°अपवरकग्रहणं शीतस्थानोपलक्षणार्थम् / अपवरकात् निर्यान्तं निर्गच्छन्तम् / अन्यत्र च गम्यमानो धूमः कथमन्यत्र शीताभावं साधयतीत्याह-इहेति / इह विरुद्धकार्योपलब्धौ। दृश्यमानश्चासौ द्वारदेशश्च तेन सहितः / / उपपत्तिमाह-साध्यति / साध्यस्य शीतस्पर्शाभावस्य प्रतिपत्तिरवबोधस्तस्य प्रतिपत्तेरनुसरणं निरूपणं तस्मात् / पूर्ववदिति यथापूर्व कार्यानुपलम्भे वह्नयाद्यभावप्रतीतिसामर्थ्यायातस्तादृशो धर्मी तद्वत् / अयमस्य भावः-शीतस्पर्शाभावप्रतीतिरेवेयं विमृश्यमाणाऽवश्यमेवंविधर्मिणमाकर्षतीति / प्रयोगः पुनरस्या एवं कर्त्तव्य:-यत्र धूमविशेषस्तत्र शीतस्पर्शाभावः। यथा महानसादौ। तथाविधश्चात्र धूम इति। एतच्चात्यन्ताभ्यासाज्झटिति धूमदर्शनाच्छीतस्पर्शाभावप्रतीत्युदये विरुद्धकार्योपलम्भजमेकमनुमानमाचार्येणोक्तमिति द्रष्टव्यम् / अनभ्यासदशया 'ब्धिः / द्वयो० A. B.P. H. E. N. २विरोधका A 3 यत्र A 4 निवृत्तिरनुमीयते A.C. / सर्वापवरका A. P. H. E. N. 'इति' नास्ति A. B.C. P.H. E. N 'इति' नास्ति E भवति ध्रु० B.C.D. 9 ०त्वप्रतिषेधः-C 1. सर्वत्र प्रतौ अववरकेत्यादि दश्यते टीकायां तू अपवरकेति /
SR No.004317
Book TitleDharmottar Pradip
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherKashiprasad Jayswal Anushilan Samstha
Publication Year1956
Total Pages380
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy