________________ 13. द्वितीयः स्वार्थानुमानपरिच्छेदः। [2. 35. तस्माद् पत्र वर्णविशेषाद् चह्नितश्यः, शीतस्पर्शो दूरस्थत्वात्' समप्यदृश्यः, नत्रास्याः प्रयोगः॥ विरुद्ध कार्योपलब्धिर्यथा—नात्र शीतस्पर्शो धूमादिति // 3 // प्रतिषेध्येन यद् विरुद्धं तत्कार्यस्योपलब्धिर्गमिका-यथेति / अत्रेति धर्मी। न शीतस्पर्श इति शीतस्पर्शाभावः साध्यः। धूमादिति हेतुः। यत्र शीतस्पर्शः सन् दृश्यः . कोऽसावेवंविधो विषय इत्याह-तत्रेति वाक्योपन्यासे / उपश्लिष्टौ प्रत्यासन्नी समुन्नतावुच्चो / तरूणां गहनं गह्वरं तेनोपेतो युक्तः / द्वितीय एकया शिलया घटितो निर्मित एकशिलारूपस्तूप इति यावत् / तत्त्वेनैव च निवृक्षकक्षकः / कक्षस्तृणम् / निर्गतौ वृक्षकक्षा यत इति विग्रहः। भवत्वेवं तथापि कथमस्याः प्रयोग इत्याह-द्रष्टापीति। अपिरवधारणे। न विवेच्यतीत्यस्यानन्तरं द्रष्टव्यम् / तस्य तादृशस्य द्रष्टुः / . भवतु द्रष्टु[]तावद् दूरदेशस्थायितया शिंशपाया अविवेकस्तथापि मेनैव वृक्षाभावं प्रतिपद्यते तेनैव शिंशपाऽभावमपि किं न प्रतिपद्यत इत्याह-स हीति / हिर्यस्मात् / कथं दृश्यानुपलम्भादवस्यतीत्याह-दृश्यत्वाद् वृक्षत्वस्येति प्रकरणात् / कुतस्तहि शिशपा[52a] त्वाभावमवतीत्याह-शिंशपेति / तुशब्दो वैधयें। इतिस्तस्मादर्थे / अभावशब्देनाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्यः / एवमुत्तरत्रापि प्रत्ययम् / - प्रयोगः पुनरीदृशः कार्य:-पत्र यस्य व्यापकं नास्ति न तत् तत्रास्ति / यथा-असति प्रमेयत्वे प्रामाण्यम् / नास्ति च वृक्षत्वं शिशपात्वस्य व्यापकमिति / बनेन व्यापकानुपलम्भस्य व्याप्याभावे गमकत्वप्रतिपादनेन नित्यानामर्थक्रियाकारित्वाभावः क्रमयोगपद्ययोापकयोरभावादित्यादि दर्शितं द्रष्टव्यम् // प्रतिषेध्येत्यादिना स्वभावविरुद्धोपलब्धि व्याचष्टे-मूले तूदाहियत इत्यध्याहार इति दर्शयन्नाह-उदाहियत इति / सुखप्रतिपत्त्यर्थं मौलं धादिप्रविभागं दर्शयन्नाह–अत्रेति / एतेनेश्वरेऽप्येकोपादानादिविकल्पे सम्प्रदानादिविकल्पाभावो विरुद्धोपलब्धिप्रसङ्गेन दर्शितः। विकल्पस्य विकल्पान्तरेण सहास्थितिलक्षणस्य विरोधस्य स्वसंताने सिद्धत्वात्। ततश्च तस्यानिरूप्यकर्तृत्वमायातम् / अन्यथा युगपद्दष्टोत्पादानामनुत्पत्तिः प्रसज्येत / अनिरूप्यकर्तृत्वेचाऽऽधिपत्यमात्रेण कर्तृत्वं स्यात् / तथा च कर्मणा सिद्धसाधनत्वमीश्वरसाधनानां कार्यत्वादीनामित्यादि दर्शितम् // विरुद्धकार्योपलब्धि व्याचक्षाण आह-प्रतिषेध्यमेति / मुलगमिका विवक्षिताभावप्रतिपादकेति विवक्षितमिति दर्शयितुमाह-गमिकेति / पूर्ववद् धादिकपनम् / 'दूरत्वात् B. D