________________ 2.34.] . अनुपलब्धिप्रकारनिरूपणम् / 129 व्यापकानुपलब्धिर्यथा'–नात्र शिंशपा, वृक्षाभावादिति // 33 // यथेति / अत्रेति धर्मी / न शिंशपेति शिशपाऽभावः साध्यः। वृक्षस्य व्यापकस्याभावादिति हेतुः। इयमप्यनुपलब्धिाप्यस्य शिशपात्वस्याऽदृश्यस्याभावे प्रयुज्यते। उपलब्धिलक्षणप्राप्ते तु व्याप्ये दृश्यानुपलब्धिर्गमिका। तत्र यदा पूर्वापरावुपश्लिष्टौ समुन्नती देशौ भवतः, तयोरेकस्तरुगहनोपेतोऽपरश्चैकशिलाघटितो निर्वृक्षकक्षकः / द्रष्टापि तत्स्थान् वृक्षान् पश्यन्नपि शिशपादिभेदं यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्ष अप्रत्यक्ष तु शिशपात्वम्। स हि निर्वृक्ष एकशिलाघटिते वृक्षाभावं दृश्यत्वाद् दृश्यानुपलम्भादवस्यति / शिशपात्वाभावं तु व्यापकस्य वृक्षत्वस्याभावादिति / तादृशे० विषयेऽस्या" अभावसाधनाय प्रयोगः // स्वभावविरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शी 1 २वह्वेरिति // 34 // प्रतिषेध्यस्य स्वभावेन विरुद्धस्योपलब्धिरुदाहियते 'यथेति / अत्रेति धर्मी। न शीतस्पर्श १४इति शीतस्पर्शप्रतिषेधः साध्यः। वह्वेरिति हेतुः / इयं चानुपलब्धिस्तत्र प्रयोक्तव्या यत्र शीतस्पर्शोऽदृश्यः, दृश्ये 5 दृश्यानुपलब्धिप्रयोगात् / / व्यापकानुपलब्धि व्याख्यातुमाह-प्रतिषेध्यस्येति / तादात्म्याविशेषेऽपि यथा कश्चिदेव धर्मो व्याप्य इतरो व्यापकश्च तथा प्रागेव धर्मोत्तरेण निर्णीतम् / धर्म इति च धर्म्यपेक्षया वृक्षत्वादि। न शिशपेति न शिंशपात्वमित्यर्थः। वृक्षस्येति च धर्मिणा धर्मस्य वृक्षत्वस्य निर्देशः / - ननूपलब्धिलक्षणप्राप्तस्य तावद् वृक्षत्वस्यानुपलब्धिः प्रयोक्तव्या। तथा च शिंशपात्वमपि दृश्यमेव निषेध्यमिति दृश्यानुपलब्धिरेव प्रयोगार्हेत्याह-इयमपीति / न केवलं पूर्विका विशिष्ट विषये किन्त्वियमपीत्यपिशब्दः / शिशपात्वस्यादृश्यस्येति-यदि स्याद् दृश्यमेव स्यादिति सम्भावनामतिवृत्तस्येत्यर्थः। एवमुत्तरत्राप्यदृश्यत्वमीदृशमेव द्रष्टव्यम् / तस्याभावे साध्य इत्यध्याहारः / १/नुपलब्धेर्य० C 2 'इति' नास्ति E 3 अत्र धर्मी-A. B. P. H. E. 4 शिशपात्वदृश्यस्याभाव B शिंशपात्वस्य दृश्याभावे A. P. H. E.N. शिंशपात्वस्य दृश्यस्याभावे-C. D. 5 साध्ये--टि० / ६०पेताऽपर C 7 तणोत्कर:-टि। कक्षः / द्र० A. B.C.D.P. H. E.N. 8 भेदं न यो विवे-A. P. H. E. 9 ०त्यक्ष शिंश. A. B.C. H. E. N. * तादशविष A " स्याः प्रयोगोऽभावसाधनाय-C . ...12 अग्नेरिति-B. P. H. E.N.. .3 ह्रियते। अत्रेति-B.C. D...... 14 'इति' नास्ति A 15 दृश्ये तु दृश्या० B.C. D.. 17