________________ 128 द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2. 33. प्रतिषेध्यस्य व्याप्यस्य यो व्यापको धर्मस्तस्थानुपलब्धिरुवाहियतेस तथा। कथमेवंविधो धर्मीत्याह-वह्नयभावेति / वह्निरिति विशिष्टो धूमजननेऽव्यवधेयशक्तिः / तस्याप्युपलक्षणत्वादन्यस्य धमजनने प्रतिबद्धस्याभावप्रतीतिर्ग्रहीतव्या / अयमर्थ:-लोकस्तावत्तथाविधदेशे धूममनुपलभमानस्तावति देशे तथाभूतवह्नयभावं प्रत्येति / न चैतदेवंविधं धर्मिणमन्तरेण घटत इति सामर्थ्यमन्यथाऽनुपपत्तिस्तस्माद् आयात उपस्थितः / अत एवाचार्येणापि “इप्ट विरुद्धकार्येऽपि देशकालाद्यपेक्षणम् / " इति ब्रुवतैवं धर्मीष्ट एवेति भावः / नन्वप्रत्यक्षस्यापि धर्मित्वे कथमिहेतीदमो हप्रत्ययान्तस्य निर्देश इत्याशङक्याहइहेति / तुशब्दो यस्मादर्थे। इतिरिहशब्दस्य निर्दिष्टस्याकारं प्रत्यवमृशति / प्रत्यक्षवस्तुप्रतिपादको निर्देशस्तथोक्तः / ननु यदि दृश्यादृश्यसमुदायो धर्मी घटते तदा कार्यस्वभावहेत्वोरपि किमयं न सम्भव तीत्याह-न केवलमिति / इहव कार्यानुपलम्भ एव / अपि तु किन्त्वन्यत्रापि कार्यविशेषे स्वभावविशेषे च तत्र तत्र कार्यहेतो म-वाक्यादग्नि-पौरुषेयत्वादिसिद्धौ तथाविधो धर्मी सुव्यक्त इति न तत्र दर्शितस्तुल्यत्वा(न्या)यतया वा द्रष्टव्यः / कथं हेतावप्येवंविधस्य धर्मिणः सम्भव इत्याह-शब्दस्येति / कश्चिदेव श्रूयमाणः प्रत्यक्षोऽन्यस्त्वश्रूयमाणः परोक्षः। अनेनावश्यं दृश्यादृश्यशब्दसमुदायोऽत्र धर्मीति दर्शितम् / दृश्यादृश्यात्मना च शब्देन धर्मिणा भाव्यमिति प्रतिपाद्यजनसंशयारोपाभ्यामायातम् / नहि प्र[51b]तिपाद्यः शब्दस्यानित्यत्वे संशयानो विपर्यस्यति, अर्थात् घटशब्द एव श्रूयमाण एव च सन्देग्धि विपर्यस्यति वा किन्त्विहे ह] घटपटादिशब्दे श्रयमाणे श्रुते श्रोष्यमाणे च। ततस्तदनुरोधात् प्रत्यक्षाप्रत्यक्षशब्दसमुदायोऽनित्यत्वे साध्ये धर्मी प्रसह्य पतितः। तद्वविहापि कार्यानुपलम्भे। अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह—यथा चेति / चोऽवधारणे * साध्यप्रतिपत्त्यधिकरणभूत इति विशेषणव्याजेन धर्मिणो लक्षणमुक्तम् / ___ कार्यानुपलब्धिप्रयोगस्त्वेवं कर्तव्यः। यत्र यस्य कार्यमुपलब्धिलक्षणप्राप्तं नोपलभ्यते तत्तु तज्जननाप्रतिबद्धसामर्थ्यं नास्ति / यथा क्वचिद दृश्यमानेऽङकुरे तथाविधं बीजम् / नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति / अनेन च कार्यानुपलम्भप्रदर्शनेन यज्जल्पितं जल्पमहोदधिना "निःशब्दे देशे शब्दमात्राभावे साध्ये कस्तदेकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो येन शब्दाभावव्यवहारो बौद्धानां भवेद्" इति तत्प्रत्युक्तं द्रष्टव्यम् / तथाहि-नेहाप्रतिबद्धसामर्थ्यानि श्रोत्रज्ञानकारणानि सन्ति / श्रोत्रज्ञानाभावादिति कार्यानुपलब्धिः स्फुटव। श्रोत्रज्ञानानुपलम्भश्च तदन्यज्ञानोपलम्भरूपः संविदितोऽस्त्येव / एकज्ञानसंसर्गित्वं चान्योन्याव्यभिचरितोपलम्भत्वमित्युक्तं पुरस्तात् / प्रयोगस्त्वनन्तरवद्विज्ञातव्य इति /