________________ 2.32.] अनुपलब्धिप्रकारनिरूपणम् / 127 तस्माद् 'वृश्यमानावश्वमानाकाशदेशाक्यवः प्रत्यक्षाप्रत्यक्षासमुदायो बह्नयमावप्रतीतिसामर्थ्यायातो धर्मी, न दृश्यमान' एव / 'इह'-इति तु प्रत्यक्षनिवेशो दृश्यमानभागापेक्षः / न केवलमिहव वृश्यावृश्यसमुदायो धर्मी, अपि त्वन्यत्रापि / शब्दस्य क्षणिकत्वे साध्ये कश्चिदेव शब्दः प्रत्यक्षोऽन्यस्तु परोक्षस्तद्वविहापि। यथा चात्र धर्मी साध्यप्रतिपत्त्यधिकरणभूतो दृश्यावृश्यावयवो दर्शितस्तद्वदुत्तरेल्वपि प्रयोगेषु स्वयं प्रतिपत्तव्यः / विशेषणमित्याह-अप्रतिबद्धति / चशब्दस्तुशब्दस्यार्थे हेतौ वा। कुत एतदित्याहअन्येषामिति / अन्त्यक्षणप्राप्तानि च कारणानि योगिनाऽपि प्रतिबद्ध (न्धु) मशक्यानि, इतरथा ताप्यमेव हीयेत.। अतस्तथाविधानि कारणानि कार्याव्यभिचारीणि कार्येण व्याप्यन्ते / ततः कार्य निवर्तमानं कारणानि तादशानि निवर्तयतीति द्रष्टव्यम् / इह याप्यनेनान्त्यक्षणेनेदं कार्य कृतमिति नावगतं तथापि वस्तुनः काचिदवस्था कार्य कुर्वती प्रतीतैव यदनन्तरं कार्यमुपलब्धम् / सैव चावस्थाऽत्रापि निषिध्यते / अत एवायं / क्षणिकाक्षणिकसाधारणावस्थातिशयनिषेधः / ननु कार्यस्य ता[51a]वद् दृश्यस्यात्रानुपलम्भो हेतुरुपादातव्यः / तत्किमस्य सम्भवोऽस्ति यत्कार्यमेव दृश्यं न तु कारणं येन कार्यानुपलब्धिः प्रयुज्यत इत्याशङक्य विषयमस्या दर्शयितुमाह-कायति / कोऽसावेवंविधो विषय इत्याह-तत्रेति वाक्योपक्षेपे। यदि पुनर्गृहाङ्गणं पश्येत् दृश्यानुपब्धिरेव प्रयुक्ता स्यादित्यभिप्रायेणाह-गृहाङ्गणमपश्यनपीति / भपिरवधारणे / अङ्गणभित्तेः पर्यन्तमवसानं / भित्तिपर्यन्तेन समं तुल्यम् / , सौत्रान्तिकानामालोकतमःस्वभाव एवाकाश इति / तन्मयत्या (तन्मत्या) आलोकसंज्ञकमित्युक्तम् / अत्राकाशे किं प्रत्येतव्यमित्याह—यद्देशेति / यदा यदेशे चेति पाठस्तदा यो देशोऽस्येति विग्रहः / यदा तु यद्देशस्थेनेति तदा यश्चासौ देशश्च तत्र तिष्ठतीति तदेशस्थ इति / स देशोऽस्येति विग्रहः / एतावताऽपि न ज्ञायते कस्तेन प्रतिपत्ता धर्मी कृत इत्याह-तद्गहेति / स चासो गृहाङ्गणवेशश्चेति समासः। अङ्गणस्य प्रकृतत्वाद् भित्तिः तस्यैव, तया परिक्षिप्त परिच्छिन्नं घमिणं करोतीति सम्बन्धः / किमेतावदेवेत्याह भित्तीति / भित्तिरङ्गणस्यैव / भित्तेश्च प्रान्तो वाच्यस्तस्याः पर्यन्तोऽवसानं निष्ठा तेन परिक्षिप्त परिच्छिन्नं तेन / चस्तुल्यबलत्वसमुच्चयार्थः / . तस्मादित्यादिनोपसंहारव्याजेन लोकाध्यवसायसिद्धं धर्मिणं दर्शयति / दृश्यादृश्यसमुदायो लोकेनैकत्वेनाकलितः / तावान् देशो दृश्यमानः किमात्मको देशावयवो भागो यस्य 'दृश्यमानाका० C. A. ' दृश्यमान इव C.