________________ 126 द्वितीयः स्वार्थानुमानपरिच्छेदः / [2. 32.. कारणानि च नावश्यं कार्यवन्ति भवन्तीति कार्यावर्शनावप्रतिबद्धसामामामेवाभावः / साध्य', न त्वन्येषाम् / अप्रतिबद्धशक्तीनि चान्त्यक्षणभावीन्येव, अन्येषां प्रतिबन्धसंभवात् / कार्यानुपलब्धिश्च यत्र कारणमदृश्यं तत्र प्रयुज्यते। दृश्य तु कारणे दृश्यानुपलब्धिरेव गमिका। तत्र 'धवलगृहोपरिस्थितो गृहाङ्गणमपश्यन्नपि चतुष पार्वेष्वङ्गणभित्तिपर्यन्तं पश्यति। भित्तिपर्यन्तसमं उचालोकसंज्ञकमाकाशदेशं धूमविविक्तं पश्यति / तत्र धूमाभावनिश्चयात् / यद्देशस्थन वह्निना जन्यमानो धूमस्तद्देशः स्यात् / तस्य च वह्नरप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः। तद्गृहाङ्गणदेशेन च वह्निना जन्यमानो धूमस्तद्देशः स्यात् / तस्मात् तद्देशस्य व)रभावः प्रतिपत्तव्यः। तगृहाङ्गणवेशं भित्तिपरिक्षिप्तं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेनाकाशदेशेन सह धर्मिणं करोति / इह-अनुपलम्भः केवलप्रदेशादिः, अभावव्यवहारयोग्यता च साध्या, दृश्यानुपलम्भस्य / तादात्म्यलक्षण एव प्रतिबन्धो गम्यगमकभावनिबन्धनम्-इति केषाञ्चिन्मतम् / केचित्तुअनपलम्भाऽभावव्यवहारयोग्यतयोर्गम्यगमकभावे विपर्ययतादात्म्यलक्षणः प्रतिबन्धो निमित्तमिति प्रतिपेदिरे। अत एवानुपलम्भः कार्य-स्वभावाभ्यां भेदेन निर्दिष्टः, स्वसाध्ये प्रतिबन्धानपेक्षणाद् , इतरयोश्च तद्वैपरीत्यादिति च / एवं चैतत् समादधतीति / तथा हि-उपलब्ध्यव्यभिचारात् तादृशी अनुपलब्धेरेव सत्ता। तत उपलब्धिलक्षणप्राप्तसत्त्वे तदुपलम्भयोस्तादात्म्यादेवानुपलम्भासद्व्यवहारयोर्गम्यगमकभावः / यदि तु तद्विविक्तप्रदेशाद्युपलम्भरूपस्यानुपलम्भस्य तदसद्व्यवहारयोग्यतायाश्च यत्तादात्म्यं तन्निमित्तमुच्येत, तदा तस्य भूतलादेरनुपलब्धिलक्षणप्राप्ताऽसद्व्यवहारयोग्यताऽप्यात्मभूतैवेति पिशाचाद्यभावव्यवहारमप्यनुपलम्भः साधयेत्, तत्प्रतिबन्धादिति // ननु कार्याभावात् कारणाभावः साध्यताम् / किमप्रतिबद्धसामय॑स्येति साध्यधर्मविशेषणेनेत्याह-कारणानीति। चो यस्माद् / इतिस्तस्मात् / साध्यः साधयितुं युज्यत इत्यर्थः / एतदेव व्यतिरेकमुखेण द्रढयति न त्विति / तुर्वैधार्थ एवकारार्थो वा / नान्येषां कारणकारणतयोपचरितकुर्वद्रूपाणाम् / अर्थ परिपूर्णया अपि सामंत्र्या विधारकसम्भवात् प्रतिबन्धः सम्भाव्यते / तदसम्भवीद ' साध्यते न त्व.C. 2 ०गृहस्योपरि० B. C. D. ' आलोकतमसी [आकाश] इति बौद्धमतम्-टि. 4 एवार्थ:-टि०। तस्य वह्ने B. 5 तद्गृहाङ्गणदेशस्थेन वह्निना-C. D. तद्गृहाङ्गणदेशेन भ(च)A. तद्गृहाङ्गणस्थेन च वल्लिना-B. तद्गृहाङ्गणवेशेन वह्नि P. H. E. 6 अप्रतिबद्धसामर्थ्यस्येत्यर्थ:-टिए