________________ 2. 32. ] अनुपलब्धिप्रकारनिरूपणम् / 125 स्वभावेत्यादि / प्रतिषेध्यस्य यः स्वभावस्तस्यानुपलब्धिर्यथेति / अत्रेति धर्मी। न धूम इति साध्यम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति हेतुः, अयं च हेतुः पूर्ववव्याख्येयः॥ प्रतिषेध्यस्य यत् कार्य तस्यानुपलब्धिरुदाह्रियतेकार्यानुपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति // 32 // यथेति / इहेति धर्मी। अप्रतिबद्धम् अनुपहतं धूमजननं प्रति सामर्थ्य येषां तान्यप्रतिबद्धसामर्थ्यानि न सन्तीति साध्यम् / धूमाभावादिति हेतुः / प्रयोगभेदादित्याचाीयमुत्तरमनूद्य प्रयोगशब्दं व्याचष्टे प्रयोग इति / प्रयुक्त्यर्थमाह-शब्देति / शब्दशब्देन प्रकरणाद् वाचकः शब्दो गृह्यते। अभिधा अर्थप्रकाशनम् / तत्र व्यापारो व्यापृतिः प्रवृत्तिः, यद्वाऽभिषा अर्थप्रकाशनं तल्लक्षणो व्यापारस्तस्य प्रयोगस्य भेदाद भिद्यमानत्वादिति तु सुबोधत्वात् धर्मोत्तरेण न व्याख्यातम् / ननु शब्दस्यैवानुपलम्भवाचकस्यानुपलम्भ एव वाच्यस्तत्कथं प्रयोगभेदो येनानुपलम्भस्य प्रकारभेद उच्यत इत्याह-शब्दो हीति। हिर्यस्मात् / साक्षादव्यवधानेन / क्वचिद् विरुद्धोपलम्भादौ / प्रतिषेध्याच्छीतस्पर्शादेरर्थान्तरमग्न्याद्यभिधत्ते / क्वचिद् व्यापकानुपलब्ध्यादी विवक्षितात् शिशपादिप्रतिषेधात्प्रतिषेधान्तरं वृक्षादिप्रतिषेधमभिधत्ते / यद्यर्थान्तरविधिरान्तरप्रतिषेधश्च क्रियते तर्हि 2 . . . . . . . . . .:. . 'द्यत इत्याह सर्वत्रेति। तुविशेषार्थः / अशब्दोपात्ता स्ववाचकपदानुपात्ता। यथा चाशब्दोपात्ताऽपि सा प्रतीयते तथा पुरस्तादभिधास्यते। अपिरवधारणे अतिशये वा। इतिस्तस्मादर्थे एवमर्थे 2........... ....... अत एवार्थी गतिमाश्रित्योक्तं न तु शाब्दीमिति द्रष्टव्यम् // अनुपलम्भस्य प्रकृतत्वात् प्रकारभेदान्-इति मन्तव्यम् / तस्यानुपलब्धिः पूर्वोक्तया * ' नीत्या तद्विविक्तः प्रदेशस्तज्ज्ञानं चावसेयम् / एवं कार्यानुपलब्ध्यादिषु द्विरूपंवाऽनुपलब्धिरे........... ति निदर्शनेन। ननु कीदृश्युपलब्धिलक्षणप्राप्तिः ? कथञ्चाविद्यमान२ ......... अयञ्चेति / पूर्वस्मिन्ननुपलब्धिलक्षणाख्यान इव। चो [50b] यस्मादर्थे, अवधारणार्थे वा पूर्ववदित्यस्यानन्तरं द्रष्टव्यः। एतच्च स्वभावानुपलम्भस्यार्थकथनं कृतमाचार्यण न प्रयोगो दर्शितः, असाधनाङ्गस्य प्रतिज्ञाया उपादानात्, साधनाङ्गस्य च व्याप्तेरप्रदर्शनात्, हेतोश्चानुवाद्यरूपस्य प्रथमान्तस्यानिर्देशात् / एवमितरासु सर्वास्वेवानुपलब्धिषु बोद्धव्यम् / - प्रयोगः पुनरीदृशः–यद् यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्सर्वं तत्रासद्व्यवहारयोग्यम्-यथा-तुरङ्गमोत्तमाले शृङ्गम् / नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो धूम इति / अनेन सामान्यादिनिराकरणे दृश्यानुपलम्भः प्रयोक्तव्य इति दर्शितमाचार्येण तुल्यन्यायत्वादित्यवसेयम् / ' 'इति' नास्ति / B. P. H. E. N. 2 अस्पष्टम्-सं०