________________ 124 द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2.30. संप्रत्यनुपलब्धेः प्रकारभेदं वर्शयितुमाह सा च प्रयोगमेदादेकादशप्रकारा // 30 // सा च एषानुपलब्धिः एकादशप्रकारा-एकादश प्रकारा अस्या इत्येकादशप्रकारा। कुतः प्रकारभेदः ? प्रयोगभेदात् / प्रयोगः प्रयुक्तिः शब्वस्याभिषाव्यापार' उच्यते। शब्दो हि साक्षात् क्वचिदर्थान्तराभिधायी, क्वचित प्रतिषेधान्तराभिधायी। सर्वत्रव तु दृश्यानुपलब्धिरशब्दोपात्तापि गम्यत इति वाचकव्यापारभेदादनपलम्भप्रकारभेदो न तु स्वरूपभेदादिति यावत् // प्रकारभेदान् आहस्वभावानुपलब्धिर्यथा नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति // 31 // निश्चयोऽनुपलम्भात् प्रवृत्तोऽपि दृढीभूतोऽपि प्रत्यक्षेण केवलप्रदेशादिवेदिना सामर्थ्यात् कृत उत्पादितोऽनुपलम्भेन दृश्यानुपलम्भेन प्रवत्तितः साधित उक्त आचार्येणाभावव्यवहारप्रवर्तनीत्यनेन शब्देनेति बुद्धिस्थम् / इतीत्यादिनोपसंहारः / इतिरेवमुक्तेन क्रमेणानुपलब्धिर्दश्यानुपलब्धिस्तस्या एव प्रकृतत्वात् / / कस्मादित्यादि वर्तमानाया इत्यन्तं सुगमम् / अनागताया अप्यनपलब्धेरभावनिश्चयः कस्मान्न भवतीत्याह-अनागतेति / हिर्यस्मादर्थे / तस्या इति पञ्चम्यन्तमिदम् / अयमेव च सामर्थ्यावसितो मौलोर्थोऽनागता हि] इत्यादिना धर्मोत्तरेण ५...''काङक्षोपशमार्थ पुररतादुक्तः। , स्यादेत्-प्रतिषेधसिद्धिरित्यादिना निश्चयाभावादित्यन्तेन [F0a] ग्रन्थेनास्यार्थस्य गतत्वात्तस्या एवाभावनिश्चयादित्ययमाचायीर्यो ग्रन्थः पुनरुक्त इति। न पुनरुक्तः / यतो यथाऽतीतेऽपि काले घटादेस्तत्कालवर्तिदृश्यानुपलब्धेरतीतायाः स्मृत्यारूढाया स्व(अ)भावनिश्चयस्तथाऽनागतेऽपि काले घटादेरभावनिश्चयः किं न भवतीति केनापाकृतं येनायं पुनरुक्त स्यादिति // संप्रति [अनुपलब्धः] प्रकारस्य स्वरूपस्य भेदं नानात्वं'..... प्रकारभेद"........ द्रष्टव्यम् / चो वक्तव्यान्तरसमुच्चये / सेति मूलानुवादः / एषेति तस्य व्याख्यानम् / एकादशग्रहणं चाचार्यस्योपलक्षणार्थ यथा प्रमाणवार्तिके... ग्रहणं .... * षोडशप्रकारेति तु द्रष्टव्यम् / एतच्च कारणविरुद्धकार्योपलब्धिव्याख्यानानन्तरं दर्शयिष्यामः / विवक्षितान्योपलम्भकरूपत्वाद् दृश्यानुपलब्धेः, कथमयं भेद उपपद्यतेत्यभिप्रेत्य पृच्छति कुत इति / 'ब्धिरेकादश प्रकारा अस्या A PE 2 भिधानव्या A. B.C.D. P.H. E.N. 3 शीतादिविरुद्धवह्नयभिधायी-टि. ... 4 वृक्षाप्रद्य (?) भावप्रतिषेधाभिधायी-टि. 5 अस्पष्टम्-सं०