________________ 2. 29. ] दृश्यानुपलब्धिनिरूपणम् / 123 ____किञ्च / दृश्यानुपलम्भनिश्चयकरणसामदेिव पूर्वोक्तया नीत्या प्रत्यक्षेणैवाभावो निश्चितः। केवलमदृष्टानामपि सत्त्वसंभवात्, सत्त्वशड्या न शक्नोत्यसत्त्वं' व्यवहर्तुम् / अतोऽनुफ्लम्भोऽभावं व्यवहारयति-'दृश्यों यतोऽनुपलब्धः, तस्मानास्ति' इति / अतो दृश्यानुपलम्भोऽभावज्ञानं कृतं प्रवर्तयति, न तु अकृतं करोती त्यभावनिश्चयोऽनुपलम्भात् प्रवृत्तोपि प्रत्यक्षेण कृतोऽनपलम्भेन प्रवतित उक्त इत्यभावव्यवहारप्रवर्तन्यनुपलब्धिः // . कस्मात् पुनरतीते वर्तमाने चानुपलब्धिर्गमिकेत्याह तस्या एवाभावनिश्चयात् // 26 // तस्या एव यथोक्तकालाया अनुपलब्धेरभावनिश्चयात् / अनागता ह्यनुपलब्धिः स्वयमेव संदिग्धस्वभावा। तस्या असिद्धाया नाऽभावनिश्चयोऽपि त्वतीतवर्तमानाया इति / / ननु यदि नास्तीत्येवमाकारं ज्ञानमनुपलब्धेलिङ्गाद भवति, कथं तहि प्रत्यक्षावसितोऽभाव उक्त इत्याह-यद्यपि चेति निपातसमुदायो यद्यपिशब्दवद् विशेषाभिधाननिमित्ताभ्युपगमे वर्तते / अमावनिश्चयशब्दसामानाधिकरण्यावयमेवेति निर्देशः / चशब्दो वक्तव्यमेतदित्यस्यार्थेऽत्र वर्तते। अभावनिश्चयस्य तदा स्थैर्यलाभादनुपलम्भादेवेत्युक्तं द्रष्टव्यम् / तथापीति लौकिकोक्तिरियं निगदाभिधानारम्भे। तस्माच्छब्देन यस्माच्छब्द आक्षिप्तः / तेनायमर्थः / .. यस्मात्केवलप्रदेशग्रहणलक्षणव्यापारानुसारी घटो नास्तीत्यभावनिश्चयः तस्मात्प्रत्यक्षकृत उच्यत इति शेषः। कस्य व्यापारानुसारीत्याकाक्षायामुक्तम्-प्रत्यक्षस्य प्रमाणविशेषस्येति / ... अथ स्याद् यद्ययं प्रत्यक्षकृतस्तदा प्रत्यक्षप्रवत्तितोपि / तत्कि दश्यानुपलम्भेन क्रियत इत्याशङ्कयाह-किञ्चेति वक्तव्यान्तरसमुच्चये। तद्विविक्तप्रदेशादिग्राहिणा प्रत्यक्षेणवाभावो निषेध्याभावः प्रसज्यप्रतिषेधात्मा निश्चितः / कथं ? दृश्यस्यानुपलम्भ उपलम्भाभावस्तुच्छरूपस्तनिश्चयकरणसामर्थ्यादन्यथाऽनुपपत्तेः / पूर्वोक्तया नीत्या युक्त्या यदि हि दृश्यस्तत्र 'भवेत् दृश्यानुपलम्भो न भवेदित्येवमात्मिकया / यदि प्रत्यक्षमित्थं प्रतिषेध्याभावं निश्चाययति, व्यवहारयितुमपि शक्नोत्येवेत्याह-कावलं किन्तु न शक्नोति व्यवहर्तुमित्यन्तभूतणिजर्थत्वान्निदेशस्य व्यवहारयितुमित्यर्थः / कुतों न शक्मोतीत्याह-सत्त्वशयेति प्रतिषेध्यसत्त्वस्य स्वरूपस्य सत्त्वशङ्कया सन्देहेन हेतुना। नन्वदर्शनेऽपि कथं सन्देह इत्याह-अदृष्टेति / तेन प्रत्यक्षेणादृष्टानामपि पिशाचादीनां सत्त्वस्य सद्भावस्य सम्भवात् सम्भाव्यमानत्वात् / नित्यं शङक्यमानानुपलम्भव्यभिचारो ह्यभाव इति भावः। अतः प्रत्यक्षस्य तत्राशक्तत्वात् साऽपि कथं व्यवहारयतीत्याहदृश्य इति / अतोऽस्मात्कारणात्कृतं प्रत्यक्षेणेति प्रकरणात् / एतदेव व्यतिरेकमुखेण द्रढयति-न त्विति / यस्मात् प्रत्यक्षव्यापारानुसार्यभावनिश्चय इतिस्तस्मात् / अभाव . शक्नोत्यभावं व्य. C १०लम्भो व्यव. A . करोत्यभाव. C 4 ०हारे प्रयत्त्यमुपलब्धि: C प्रवर्तन्यपल A प्रतिन्यपल PH प्रवर्तिन्यमु० B.