________________ 122 द्वितीयः स्वार्थानुमानपरिच्छेदः / [ 2.28. व्यापारं दर्शयति / अभावस्य व्यवहारः 'नास्ति' इत्थेबमाकारं ज्ञानम्, शब्दश्चैवमाकारः, निःशबू' गमनागमनलक्षणा च प्रवृत्तिः कायिकोऽभावव्यवहारः। घटाभावे हि जाते निःशङ्ख गन्तुमागन्तुं च प्रवर्तते / 2 तवेतस्य त्रिविधस्याप्यभावव्यवहारस्य दृश्यानुपलब्धिः प्रवर्तनी साधनी प्रवर्तिका। यद्यपि च 'नास्ति घटः' इति ज्ञानमनुपलब्धेरेव भवति, अयमेव चाभावनिश्चयः, तथापि यस्मात् प्रत्यक्षेण केवल: प्रदेश उपलब्धस्तस्मात् 'इह घटो नास्ति' इत्येवं च प्रत्यक्षव्यापारमनुसरत्यभावनिश्चयः; तस्मात् प्रत्यक्षस्य केवलप्रदेशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृतः / ननु यथा विकल्पेन विषयीक्रियमाणोऽतीतोऽनुपलम्भः प्रमाणमुच्यते तथा विकल्पस्याव्याहतप्रसरत्वादनागतोऽप्यनुपलम्भो विकल्प्यमानः किं न तथाप्रमाणमित्याह-तवयमिति / यस्मात्केवलप्रदेशदर्शनाहितः संस्कारोऽतीते घटादावमूढो गृह्यते, वर्तमाने तु तस्मिन् स्मृतिसंस्कारे मोहो न सम्भवत्येव तत्तस्मादयं तात्पर्यार्थः / अनुपलम्भनिश्चयहेतुत्वादनुपलम्भः केवलप्रदेशादिः स्फुटो यथाऽसौ केवलोऽनुभूतस्तथा स्मृत्वा विषयीक्रियमाणः प्रमाणम् , वर्त्तमानश्च तादृगनुपलम्भः स्फुटोऽभ्रान्तेन ज्ञानेन गृह्यमाण इति द्रष्टव्यम् / यत ईदृशोऽनुपलम्भः प्रमाणं ततस्तस्मात् / कुतो न शक्यते ज्ञातुमित्याह-अनागताया इति / तथात्वेन निश्चितो हि हेतुर्गमकोऽन्यथा सन्दिग्धासिद्धता हेतुदोषः स्यादित्यभिप्रायः। प्रत्यक्षनिवृत्तिशब्देन तावद् दृश्यानुपलब्धः स्वभावो दर्शितोऽमूढेत्यादिना तु किं दर्शितमित्याह-कालेति / [इतिरेवमर्थे ते]नैवं कालविशेषोनुपलब्धेाख्यात इति / कालविशेषोऽतीतो वर्तमानश्च व्याख्यातः कथितोऽनेनेति शेषः / एतच्चातीते वर्तमाने च कालेऽनुपलब्धेः प्रामाण्याख्यानमस्योपलक्षणं द्रष्टव्यम्, कार्यस्वभावहेत्वोरपि तयोः कालयोः प्रामाण्यात् / तथाह्यासीदत्र वह्नि—मस्योपलब्धत्वात् / अस्ति वह्निरिह धूमस्योपलभ्यमानत्वात् / तथाऽसीदिह पादपः शिशपाया उपलब्धत्वात् / / अस्तीह वृक्षः शिंशपाया उपलभ्यमानत्वाद् इत्यपि भवत्येव / ननु दृश्यानुपलम्भे भवतु ज्ञानाभिधानलक्षणो व्यवहारः / कायिकस्तु कथमित्याह-घटेति / हिर्यस्मात् / प्रवर्तत इति योग्यतयोच्यते। प्रवृत्तियोग्यस्तावद् भवतीति / अत एव चाभावयोग्यता साध्योच्यते। तदेतस्येति लोकोक्तिरेषा। तच्चतच्चेति विग्रहः कार्यः / यद्वा यतोऽभावनिश्चयोऽनुपलब्धिनिमित्तकस्तत्तस्मात् / अपिरतिशये / आस्तामेकस्य द्वयोर्वा प्रवर्तनी, त्रिविधस्य यावत्प्रवर्तनीत्यर्थः / प्रवर्तनीत्यस्य द्वयमेतद् विवरणं स्पष्टार्थ साधनी प्रवतिके[49b]ति प्रवर्तयतीति प्रवर्तनीति योग्यतयोक्तम्। साभावत्रितयमभावव्यवहारं प्रवर्तयितुं योग्या तावन्मात्रनिमित्तकत्वात्तस्य / सथित्वे पुरुषस्तान् व्यवहारानाचरतु मा वा / अत एवाभावव्यवहारयोग्यता प्रदेशादेः साध्यते दृश्यानुपलम्भेनेति परमार्थः। 1 निःशङ्कगमागमलक्ष. D. B. निःशङ्का गमनागमनयो(?)लक्ष. C. 2 तदेवमस्य C.D. तदेवमेतस्य A. P. H. E. N. तदेव तस्य-B ३प्यूभावस्य व्यव० C.. 4 'प्रवर्तनी' इति नास्ति A. B. C. D. P. H. E. N. 'त्येवं प्रत्य० C.