________________ 2.28. ]. दश्यानुपलब्धिनिरूपणम् / 'अमूढोऽभ्रष्टो दर्शनाहितः स्मृतिजननरूपः संस्कारो यस्मिन् घटावी स तथोक्तः / तस्य अतीतस्य प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः / वर्तमानस्य च प्रतिपत्तप्रत्यक्षस्येति सम्बन्धः / अमूढस्मृतिसंस्कारग्रहणं तु न वर्तमानविशेषणम् / यस्मावतीते घटविविक्तप्रदेशदर्शने स्मृतिसंस्कारो मूढो दृश्यघटानुपलम्भे दृश्ये च घटे मूढो भवति / वर्तमाने तु'घटरहितप्रदेशदर्शने न स्मृतिसंस्कारमोहः / अत एवन घटाभावे, नापि घटानुपलम्भे मोहः। तस्मान्न वर्तमाननिषेध्यविशेषणममूढस्मृतिसंस्कारग्रहणम्, स्मृतिसंस्कारव्यभिचाराभावाद् वर्तमानस्यार्थस्य / अत एव वर्तमानस्य चेति चशब्दः कृतः, विशेषणरहितस्य वर्तमानस्य विशेषणवतातीतेन समुच्चयो यथा विज्ञायतेति / तदयमर्थः—अतीतोऽनुपलम्भः स्फुटः स्मर्यमाणः प्रमाणम्, वर्तमानश्च / ततो 'नासीदिह घटः, अनुपलब्धत्वात्,-'नास्ति अनुपलभ्यमानत्वात्' इति शक्यं ज्ञातुम् / न तु 'न भविष्यत्यत्र घटः, अनुपलप्स्यमानत्वात्' इति शक्यं ज्ञातुम् / अनागताया अनुपलब्धः सत्त्वसंदेहादिति कालविशेषोऽनुपलब्धाख्यातः / / ननु दश्यानुपलब्धिः कस्मिन् काले प्रमाणं किं स्वभावा किंव्यापारा चेति त्रितयं पृष्ट आचार्यस्तत्रानेन किमाख्यातमाचार्येणेत्याशङ्कामपाकुर्वन्नाह–अनेनेति / अनेन प्रतिपत्तप्रत्यक्षस्य निवृत्तिरिति वचनेन / चोऽवधारणे / स्वभावस्ये (भावे)त्यस्यानन्तरं द्रष्टव्यः / प्रत्यक्षस्य घटस्य / प्रसज्यप्रतिषेधलक्षणनिवृत्तिनिश्चयहेतुत्वात्प्रत्यक्षघटनिवृत्तिः प्रत्यक्षघटानुपलब्धिर्नञः पर्युदासवृत्त्या तदेकज्ञानसंसगि वस्तु तज्ज्ञानं च द्वयं स्वभावो रूपं यस्या दृश्यानुपलब्धेः सा तथोक्ता व्याख्यातेति शेषः / - ननु दृश्यानुपलब्धिरूपं लिङ्गमस्तु पर्युदासरूपम्, साध्यस्तु प्रसज्यप्रतिषेधरूपः किं न भवतीत्याह-सेति / चो यस्मात् / सा तथाविधाऽनपलब्धि ..........उक्तमाचार्येण साभावव्यवहारप्रवर्तनीत्यनेन शब्देनेति भावः। धर्मोत्तरेण चात एव अभावो न साध्य इत्यनेन। घटविविक्तप्र[49a]देशदर्शनेनाहित आरोपितः संस्कारो विशिष्टशक्तियुक्तविज्ञानात्मिका वासना, न तु पराभिमतो भावनाख्यः / अनुरूपस्मरणं जनयितुमनीशानो मृढ इति व्यपदिश्यते। दृश्यघटानुपलम्भे दृश्यस्य घटस्योपलब्ध्यभावे तुच्छरूपे। अत एव च दृश्य घटे। अमूढस्मृतिसंस्कारग्रहणं कस्मान्न वर्तमानविशेषणमित्याह-वर्तमाने त्विति / तुरतीताद्वर्तमानस्य वैधर्म्यमाह। अतो मोहाभावान्न घटाभावे व्यवहर्त्तव्यकरूपे। नापि घटानुपलम्भे घटोपलब्ध्यभावे तुच्छ रूपे। प्रत्यक्षवदारोपाद् वर्तमानस्यार्थस्य घटादेः / अत एव वर्तमानग्रहणस्य निर्वि- शेषणत्वादेव / पदानां प्रयोजनं प्रतिपाद्येदानीं संबन्धमर्थं च दर्शयति-टि. . वर्तमाने च घट. A. B. P. H. E.N. 3 अतएव न घटानुपलम्भे नापि घटे मोहः A.C.D. P. H. E. N. अत एव घटानपलम्भे नापि घटे मोहः-B ४०हणम् व्यभि. C 5 विज्ञायेत / तदय० B 6 स्फुटं B. P. H. E. N. 7 अनुपलभ्यमानत्वात्-A ..इति ज्ञातुं शक्यम्-C.