________________ 120 द्वितीयः स्वानुमानपरिच्छेदः / [ 2.28. यथा' चैकज्ञानसंसगिणि प्रत्यक्षे घटस्य प्रत्यक्षत्वमारोपितम् असतोऽपि, तथा तस्मिन्नेकसानसंसगिण्यतीते चामढस्मृतिसंस्कारे, वर्तमाने च घटस्य तत्तपमारोपितमसत इति द्रष्टव्यम् / अनेन च दृश्यानुपलब्धिः प्रत्यक्षघटनिवृत्तिस्वभावोक्ता / सा च सिद्धा। तेन न घटाभावः साध्यः, अपि तु अभावव्यवहार इत्युक्तम् / षेधरूपं लिङ्गमस्तु, न तु नञः पर्युदासवृत्त्या तदेकज्ञानसंसर्गि वस्तु, तज्ज्ञानं चेति पूर्वपक्षवादी दर्शयति / सत्यमित्यादिना प्रतिविधत्ते / किन्त्वेकज्ञानसंसगिणि भूतलादी दृश्यमाने सति दृश्यः सम्भावित आरोपितः स प्रतिषेध्य इति प्रकरणात् / ततो दृश्यत्वसमारोपात् दृश्यानुपलब्धिदृश्यज्ञानाभावस्तुच्छरूपो व्यवहर्त्तव्यमानं निश्चिता भवति / निश्चीयतामुपलब्ध्यभावो ज्ञेयाभावस्तावन्न निश्चित इति तन्निश्चयार्थ निवृत्तिमात्रं व्यापरिष्यत इत्याह-दृश्यति / दृश्यज्ञानाभावनिश्चयसामर्थ्यादन्यथाऽनु[48b]पपत्तेः / चो हेतौ। दृश्यस्य ज्ञेयस्याभावो व्यवहर्त्तव्यकरूपः / सामर्थ्यमेव यदीत्यादिना दर्शयति / हिर्यस्मादर्थे / दृश्यानुपलम्भ इति दृश्योपलम्भाभाव इत्यर्थः। अतोऽस्माद् दश्यानुपलम्भनिश्चयात्। दृश्यस्य ज्ञेयस्याभाव उक्तासामर्थ्यादवसितः। दृश्योपलम्भाभावनिश्चयस्त्वेकज्ञानसंसर्गिवस्त्वन्तरोपलम्भेनेति द्रष्टव्यम् / ___ननु यदि ज्ञेयाभावोऽप्यवसितस्तहि कथं लिङ्गेन साध्यत इत्याह-न व्यवहृत इति / अदृष्टानामपि सत्त्वशङकया न प्रत्यक्षं व्यवहारयितुं शक्नोतीति भावः। केन तहि व्यवह्रियत इत्याह-इश्यानुपलम्भेन लिङ्गभूतेन / ७....."ऽभावव्यवहार एव७............"ज्ञानं चेति / चकारस्तुल्यकक्षतां दर्शयति। द्वयोश्च निवृत्तिनिश्चयहेतुत्वम् ; ज्ञानमन्तरेण-'यस्मादयं केवलः प्रदेशस्तस्मात् घटादिर्नास्ति'इत्यध्यवसातुमशक्यत्वात्; तथा विषयमन्तरेण-'यस्मात्केवलप्रदेशापरोक्षीकरणं तस्मात् तज्ज्ञानं नास्ति' इति निश्चेतुमशक्यत्वादिति द्रष्टव्यम्। प्रत्यक्षस्य घटादेनिवृत्तिनिश्चयहेतुत्वात्प्रत्यक्षनिवृत्ति .............. / ननु च प्रतिषेध्यस्य घटादेरसतोऽपि तथाऽस्तु प्रत्यक्षत्वम् / यत्पुनस्तत्र नासीदेव तस्य कथमतीतत्वम् ; यच्च तत्र नास्त्येव तस्य कथं वर्तमानत्वम् , कथं च तत्रानुपलब्धेापार इत्याशङ्कामपाकुर्वन्नाह यथेति / येन प्रकारेण घटो यदि भवेद् दृश्य एव भवेदित्येवं रूपेण / चो हेतौ। तस्मिन्नेकज्ञानसंसगिण्यतीतेऽमूढस्मृतिसंस्कारे / चो वक्तव्यान्तरसमुच्चये। वर्तमाने च। समुच्चये चकारः। तथा तेन प्रकारेण-यदि तत्र पूर्व घट: स्थितो यदि स्यात् , उपलब्धः स्यात्, न चोपलभ्यत इत्येवमात्मना घटस्यारोपात् प्रत्यक्षस्य तदानीमसतस्तदूपमतीतत्वं वर्तमानत्वञ्चारोपितमारोपसिद्धम् इतिरेवं द्रष्टव्याकारं दर्शयति / द्रष्टव्यम् ज्ञातव्यमिति योजनीयमिदम् / ' प्रतिपत्तृप्रत्यक्षस्यैतद् व्याख्याय अतीतस्य वर्तमानस्यैतद् विशेषणद्वयं व्याचष्टे-टि. 2 ०तीते वर्तमाने चामढस्मृतिसंस्कारे च घट० A. B.C. D. P. H. N. 3 तद्रूप A. B. P. H. E.N. 4 अतीतादि-टि. / अनेन दश्या A.B. P. H. E.N. 6 तेन घटा० B अस्पष्टम्-सं०