________________ 2.28.] - दृश्यानुपलब्धिनिरूपणम् / ननु च दृश्यनिवृत्तिरवसीयते दृश्यानुपलम्भात् / सत्यमेवैतत् / केवलमेकज्ञानसंसगिणि वृश्यमाने घटो यदि भवेद् दृश्य एव भवेदिति दृश्यः संभावितः। 'ततो दृश्यानुपलब्धिनिश्चिता। श्यानपलब्धिनिश्चयसामर्थ्यादेव च दृश्याभावो निश्चितः। यदि हि दृश्यस्तत्र भवेद् दृश्यानुपलम्भो न भवेत् / अतो दृश्यानुपलम्भनिश्चयाद् दृश्याभावः सामर्थ्याववसितः, न व्यवहृत इति दृश्यानुपलम्भेन व्यवहर्तव्यः / * तस्मादर्थान्तरम्-एकज्ञानसंसगि दृश्यमानम्, तज्ज्ञानं च प्रत्यक्षनिवृत्तिनिश्चयहेतुत्वात् प्रत्यक्षनिवृत्तिरुक्तं द्रष्टव्यम् / प्रत्यक्षपरिच्छेद्यत्वात् प्रत्यक्षो घटादिः। निवृत्तिशब्देनाचार्यस्यानुपलब्धिर्विवक्षितेति दर्शयति तस्य निवृत्तिरनुपलब्धिरिति / अनुपलब्धिशब्देनापि विवक्षितकर्तृकर्मधर्मोपलब्धिपर्युदासेनान्यदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च विवक्षितम् / [48a] एतदेव स्पष्टयति तदभावस्वभावेति यावदिति / तस्य प्रतिषेध्यस्य घटादेरभावो विशिष्टो भावस्तत्स्वभावा। तदभावस्वभावशब्देन यावानर्थ उक्तस्तदनुपलब्धिशब्देनापीति इति यावदित्यस्यार्थः / यतोऽन्योपलब्धिरेव तदनुपलब्धिः / सैव च तदभावो नान्योऽत एवास्मादेव कारणादभावो घटादेर्न साध्यः। कुतो न साध्य इत्याह-स्वभावानुपलब्धेलिङ्गात् / कुतो न साध्य इत्याहसिद्धत्वात् निश्चितत्वात् घटाभावस्येति प्रकरणात् / एवं मन्यते-तदेकज्ञानसंसर्गि वस्तु तज्ज्ञानं च घटाद्यनुपलब्धिस्तदभावश्च / तच्चेन्द्रियजेन प्रत्यक्षेण स्वसंवेदनेन च सिद्धमिति न लिङ्गादभावः साध्यत इति। नन्वविद्यमानो घटादिः कथं ... प्रत्यक्षः ? अथ प्रत्यक्षः कथं तदनुपलब्धिरुच्यत इत्याह-अविद्यमानोऽपि चेति / न केवलं विद्यमानः प्रत्यक्ष उच्यते इत्यपि शब्दः / [समग्रा समस्ता सामग्री कारणकलापो यस्येति विग्रहः / "शेषादविभाषा" [पाणिनि 5.4.154] इति कप / “न कपि" [पाणिनि 7.4.14] इति ह्रस्वत्वप्रतिषेधः / ज्ञायमानो निश्चीयमानो [घटादिरेकज्ञान] संसर्गिणि प्र......... तदुपलब्धेरेवेत्यवधारणीयम् / प्रत्यक्षनिवृत्तिर्घटाद्यनुपलब्धिः। कस्मात्तु द्वयं तथोच्यत इत्याह ततो हीति। हीति * यस्मात् / यस्मादम् एव दृश्यघटादितुच्छरूपनिवृत्त्यवसेयहेतू तस्मात् कारणात् / अर्थ एकज्ञानसंसर्गिवस्त्वन्तरम्, ज्ञानं च तस्यैव / एतदेव व्यतिरेकमुखेण द्रढयति-न त्विति / निवृत्तिमात्रमुपलब्ध्यभावमात्रम् / तस्य तथात्वे को दोष इत्याह-निवृत्तिमात्रादिति / दृश्यनिवृत्त्यनिश्चयाद् दृश्याभावानिश्चयात् / इह निवृत्तिमात्रस्य प्रसज्यप्रतिषेधात्मनो निश्चेतुमशक्यत्वान्न हेतुत्वं युज्यत इति धर्मोत्तरस्याशयो निवृत्तिमात्रा दृश्यनिवृत्त्यनिश्चयादिति ब्रुवतः / पूर्वपक्षवादिना त्वेवं ज्ञातम्-निवृत्तिमात्रान्निविशेषणादयमेवं प्रतिषेधति / तदहं सविशेषणं निवृत्तिमात्रमेव दर्शयामीति प्रमोदमान आह-ननु चेति / वृश्यनिवृत्तिर्दश्याभावः / दृश्यानुपलम्भादित्यत्रानुपलम्भशब्देनोपलम्भाभावमात्रं विवक्षितमितरथा पूर्वपक्षवादिनः प्रकृतं हीयेत / अनेन सविशेषणमेवोपलम्भाभावमात्र प्रसज्यप्रति 1 विविक्तप्रदेशज्ञानात्०-टि. 2 दृश्यानुपलम्भनिश्च C. D. . ०देव दृश्या० E. ___- 4 अमुमेवार्थं व्यतिरेकमुखेन भावयति-टि० 5 न तु व्यव. A PH EN6 अस्पष्टम्-सं०.