________________ 118 द्वितीयः स्वार्थानुमानपरिच्छेदः। [ 2. 28. ___अथेयं वृश्यानुपलब्धिः कस्मिन् काले प्रमाणम्, किस्वभावा, किंव्यापारा चेत्याहअमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तप्रत्यक्षस्य 'निवृत्तिर भावव्यवहारप्रवर्तनी // 28 // अमूढेत्यादि / प्रतिपत्तुः प्रत्यक्षो घटादिरर्थः, तस्य निवृत्तिरनुपलब्धिः तदभावस्वभावेति यावत् / अत एवाभावो न साध्यः स्वभावानुपलब्धः, सिद्धत्वात् / अविद्यमानोऽपि . ५च घटादिरेकज्ञानसंसगिणि भूतले भासमाने समग्रसामग्रीको ज्ञायमानो दृश्यतया संभावितत्वात् प्रत्यक्ष उक्तः। अत एकज्ञानसंसर्गी दृश्यमानोऽर्थस्तज्ज्ञानं च प्रत्यक्षनिवत्तिरुच्यते।। ततो हि दृश्यमानादर्थात् तद्बद्धश्च समग्रदर्शनसामग्रीकत्वेन प्रत्यक्षतया संभावितस्य निवृत्तिरवसीयते। तस्मादर्थ-ज्ञाने एव प्रत्यक्षस्य घटस्याभाव उच्यते। न तु निवृत्तिमात्रमिहाभावः, निवृत्तिमात्राद् दृश्यनिवृत्त्यनिश्चयात् / यस्येति दर्शयन्नाह-सतीति / एतस्मात्सति वस्तुनि तत्सम्भवात् / मूले त्वन्यथाचानुपलब्धिलक्षणप्राप्तेष्वित्येकवाक्यतयैवार्थः संगच्छते। नाप्यशब्दार्थव्याख्या, नाप्युत्तरपदव्याख्याने पूर्वपक्षवचना(न)प्रयासः कश्चित् / तथा तु न प्रकान्तं धर्मोत्तरेणेति किमत्र कुर्मः ? कुत एतदिति सामान्येनोक्त्वा विशेषनिष्ठं करोति सत्यपीति। एतच्च विग्रह इत्यन्तं सुगमम् / तेष्वनुपलब्धिलक्षणप्राप्तेष्वभावनिश्चयाभावात्। सत्यपि वस्तुनि तस्या अनुपलब्धर्भाव इष्टः / अनेनैतदाह-नास्माकमत्र प्रमाणमस्ति यत्सत्येव वस्तुनि सा भवतीति। किन्तु तस्यां सत्यामपि यस्मात्प्रत्ययो दोलायते तस्मादेवमुच्यत इति / सम्प्रति निश्चयाभावस्यावधि पर्येषमाण आह–कस्मात्सकाशादिति / परप्रत्यक्षनिवृत्तरशक्यनिश्चयत्वे तन्निवृत्त्यर्थमात्मप्रत्यक्षग्रहणम् / ननु यद्ययमपादानप्रश्नो न तु हेतुप्रश्नस्तदा कथमिदमाह-तस्य निवृत्तेः कारणानिश्चयाभाव इति चेत् / न। अन्यार्थत्वात् कारणशब्दस्य / निश्चयाभावस्य शाब्देन न्यायेन जायमानस्यैषा प्रकृतिः कारणम् / “जनिकर्तुः प्रकृतिः"[पाणिनि 1.4.30] इत्यनेन लब्धापादानसंज्ञकादस्मादित्यर्थस्य विवक्षितत्वात्। अन्यथा त्वसमञ्जसं स्यात् / यस्मादित्यादिनोक्तमर्थमपसंहरति। एतच्च प्रतिषेधसिद्धिरित्येतदन्तं सुगमम् // सम्प्रत्यनुपलब्धेरनुमानज्ञानहेतुत्वात् प्रामाण्यं स्वभावविशेषो व्यापारश्चोक्तोऽपि कालपुरुषविशेषपरिग्रहेण वक्तुम्-अथेत्यादिना प्रश्नपूर्वमुपक्रमते / अथशब्द आरम्भे पूर्ववत् / 1 निवृत्तिरनुपलब्घिरभाव० C. D. 3 ०हारसाधनी B. C. D. P. H. E.N. 3 अमूढेति A. P. E. नास्ति H. N. 4 यथा च प्रतिपत्तृपत्यक्षनिवृत्तिरनुपलब्धिः प्रदेशस्तज्ज्ञानं चोच्यते तथा अविद्यमानोऽपीत्यादिना दर्शयति-टि० 5 ०मानोपि घटा० C. 6 गिणि भास. A. E. P. 7 दृश्यमानतया B D. H. N... संसर्गात् B.