________________ 2. 27. ] दृश्यानुपलब्धेरेव प्रतिषेधसिद्धिः। अब तत एव कस्मादित्याहअन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभाववि प्रकृष्टेष्वर्थेष्वात्मप्रत्यक्ष निवृत्तरभावनिश्चयाभावत् // 27 // अन्यथा चेति / सति वस्तुनि तस्या अदृश्यानुपलब्धः संभवादित्यन्यथाभब्दार्थः / एतस्मात् कारणात् नान्यस्या' अनुपलब्धः प्रतिषेधसिद्धिः। कुत एतत्-सत्यपि वस्तुनि तस्याः संभव इत्याह-अनुपलब्धिलक्षप्राप्तेब्वित्यादि / इह प्रत्ययान्तरसाकल्यात् स्वभावविशेषाच्चोपलब्धिलक्षणप्राप्तोऽर्थ' उक्तः / द्वयोरेफैकस्याप्यभावेऽनुपलब्धिलक्षणप्राप्तोऽर्थ' उच्यते / तविहानुपलब्धिलक्षणप्राप्तेष्विति प्रत्ययान्तरवैकल्यवन्त उक्ताः। देशकालस्वभावविप्रकृष्टेष्विति स्विभावविशेषरहिता उक्ताः। देशश्च कालश्च स्वभावश्च तैविप्रकृष्टा इति विग्रहः। तेष्वभावनिश्चयस्याभावात् / सत्यपि वस्तुनि तस्या भाव इष्टः। कस्मानिश्चयाभाव इत्याह--तेषु प्रतिपत्तुरात्मनो यत् प्रत्यक्षं तस्य निवृत्तः कारणात् निश्चयाभावः / यस्मादनुपलब्धिलक्षणप्राप्तेष्वात्मप्रत्यक्षनिवृत्तरभावनिश्चयाभावः, तस्मात् सत्यपि वस्तुनि आत्मप्रत्यक्षनिवृत्तिलक्षणाया अवश्यानुपलब्धेः संभवः। ततो यथोक्ताया एव प्रतिषेषसिद्धिः॥ प्रतिषेधसम्भवादित्यभिप्रायेण पूर्वपक्षप्रवृत्तेरदोष एषः / प्रतिषेधशब्देन व्यवहारोऽभिप्रेत इति प्रतिषेषव्यवहार इति विवृतम् / मूले त्वपिशब्दः साध्यान्तरसमुच्चये। काऽसौ यथोक्तेत्याह-येति / / मूलसामर्थ्यस्थितमभिव्यनक्ति-तस्मादन्यतोऽदृश्यानुपलब्धेनॊक्ता प्रतिषेषसिद्धिरिति 'प्रकृतेन सम्बन्धः / .. यद्यदृश्यानुपलब्धर्न भवति तदाऽनुपलब्धित्वाविशेषे विवक्षिताया अपि मा भूदित्यभिप्रेत्याह-ततस्तावदिति / तस्मादसम्भवात् कारणात्तत इति तत एव दृश्यानुपलब्धेरिति विवक्षितमितरथाऽन्यस्या अपि प्रतिषेधसिद्धिकथनप्रसङ्गात् // ननु ततोऽप्यस्त्यन्यतोऽपि। कथं पुनस्तत एवेति नियमो लभ्यते इत्यभिप्रायवानाहअधेति। अथशब्दः प्रश्ने / अन्यथा चेत्युत्तरं व्याचक्षाण इहैवच्छेदं दर्शयति पशब्दञ्च यस्मादर्थे / दृश्यानुपलब्धेरुक्तात्प्रकाराददृश्यानुपलब्धेरन्यप्रकारत्वमन्यथात्वं विवक्षितमाचा .. प्रकृष्टेष्वात्मप्र०-B. P. H. E.N. 2 अदृश्यानुपलब्धे:-टि. 3 प्राप्तार्थ उक्त: A. B. P.H. प्राप्तेऽर्थे C 4 द्वयोरेकस्याप्य० B द्वयोरेकैकस्याभावे-C प्राप्तेऽर्थे उच्यते-C स्वभावविशेषविप्रकृष्टाः A. P. H. E. N. स्वभावविप्रकृष्टा-C * अदृश्यानुपलब्धे:-टि.। तस्याभावः P. H. E. N.