________________ 116 द्वितीयः स्वार्थानुमानपरिच्छेदः / [2.24. भवतु नाम तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः / कार्यस्वभावयोरेव तुगमकत्वं कथमित्याहते च तादात्म्य-तदुत्पत्ती स्वभाव-कार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः // 24 // ते चेति / इतिः तस्मादर्थे। यस्मात् स्वभावे कार्ये एव च तादात्म्यतदुत्पत्ती स्थिते, तन्निबम्घनश्च गम्यगमकभावस्तस्मात् ताभ्यामेव कार्यस्वभावाभ्यां वस्तुनो विधेः सिद्धिः // अथ प्रतिषेधसिद्धिरदृश्यानुपलम्भादपि कस्मान्नेष्टेत्याह प्रतिषेधसिद्धिरपि' यथोक्ताया एवानुपलब्धेः॥२॥ प्रतिषेधव्यवहारस्य सिद्धिर्यथोक्ता या दृश्यानुपलब्धिस्तत एव भवति यतस्तस्मादन्यतो नोक्ता॥ ततस्तावत् कस्माद्भवतीत्याह सति वस्तुनि तस्या असंभवात् // 26 // ..... सति तस्मिन् प्रतिषेध्ये वस्तुनि, यस्माद् दृश्यानुपलब्धिर्न संभवति तस्माद्---असंभवात् ततः प्रतिषेधसिद्धिः॥ च कतिपयकालव्यवधानेन तदुदयनिमित्तमिति पूर्ववद् हेतुधर्मानुमानम्। मेघस्यापि तथाविधस्यात्यन्तायोग्यताव्यावृत्त्या वृष्टिकरणयोग्यतानुमेया। न तु भाविवर्ष व्यभिचारसम्भवात् / सा च स्वभावभूतैवानुमीयत इति तादात्म्यमेव निबन्धनम् / आदित्योदयस्य तु प्रभावातिशयवता योग्यादिना विबन्धसम्भवात् नास्त्येवाविनाभावः। अन्यथाद्य गर्दभदर्शनस्याप्यस्तमयश्वस्तनोदययोस्तथात्वं स्यात्। एवं तु युक्तम्-अयमुदेता अस्तमयश्वस्तनोदययोग्य इति / तथा चोदयतथाविधयोग्यतयोस्तादात्म्यमेव निबन्धनम् / कुष्माण्डस्यापि बीजेनैकसामग्र्यधीनतैव। परिव्राजकनकूलौ दण्डसर्पयोरप्रतिबद्धावेव। अन्यथापि सम्भवात् / कियद् वा शक्यते परिहर्तुम् ? एतावदुच्यते-असति तादात्म्ये तदुत्पत्तौ वा कस्यचित्क्वचित्प्रतिबन्धे तादूप्येण च गमकत्वे सर्वं सर्वत्र प्रतिबद्धं तद्गमकं प्रसज्यतेति // कार्यस्वभावयोरेव तु गमकत्वं कथमिति ब्रुवतः पूर्वपक्षवादिनोऽयमाशयः-तादात्म्यतदुपत्ती एवान्यस्य भविष्यतः, ततश्च गमकत्वमिति / कार्यस्वभावयोरिति द्वयोरुिच्चारणे चायं तस्य भावः भवद्भिरेवानुपलम्भोऽनयोरन्तर्भावित इति // ' ... 'नुपलब्धिरित्युक्ते कुतोस्य पूर्वपक्षस्योत्थानम् ? सत्यमेतत्, केवलं तदेवा .... . . . . . . 'मित्यस्या अप्यनुपल[47b]ब्धेः ' साध्यस्य-टि० 4 तस्यासंभवात् C 2 ०सिद्धिर्यथोक्ता० E 5 अस्पष्टम्-सं० अदृश्यानुपलब्धेः-टि०