________________ 2.23.] प्रतिबन्धनिरूपणम् / 115 यदि समवायादिरन्यः सम्बन्धः प्रमाणबाधितो न भवेत् / न चासो न बाध्यते। तत्कुतोऽसावसन्नस्य निमित्तं भवेदिति / / समुदायार्थ व्याचष्टे-यो यत्स्वभाव इति / अप्रतिबद्धस्वभावत्वादिति मूलस्य भावप्रत्ययं त्यक्त्वा विग्रहमाह-अप्रतिबद्ध इति। तस्य भावस्तत्त्वम् / तस्मादिति तु योज्यम् / अमुमेवार्थ यदीत्यादिना स्फटयति / कस्मात्पुनरन्यतो निमित्तान्न भवतीत्याह-प्रतिबद्धेति / हिर्यस्मात् / प्रतिबद्धस्वभावत्वमेवान्यस्यान्यत्र भविष्यतीत्याहन चेति / चोऽवधारणे हेतौ वा। अन्यस्य सम्बन्धस्याभावात्तादात्म्यतदुत्पत्त्यभावे चेति प्रकरणलभ्यं कृत्वा न चान्यः कश्चिवायत्तस्वभाव इत्युक्तम् / ननु चासत्यपि तादात्म्ये तदुत्पत्तौ चान्यत्रास्वभावेऽनुत्पादके चान्यत्प्रतिबद्धं यथाआतपो वृक्षच्छायायाम् / तुलाया अर्वाग्भागनमनावनमने परभागोन्नमनावनमनयोः / अर्वाग्भागः परभागे। रसो रूपे। पाणिः पादयोः / अपतज्जलमाधारे / बलाका सलिले। नदीपूर उपरिवृत्तायां वृष्टौ। चन्द्रोदयः समुद्रवृद्धौ कुमुद विकासे च। कृत्तिकोदयो रोहिण्युदये / पिपीलिकोत्सरणं मत्स्यविकारश्च वृष्टौ। शरदि जलप्रसादोऽगस्त्योदये। विशिष्टो मेघो[द]यो वर्षकर्मणि। अद्यादित्योदयोऽस्तमये श्वस्तनोदये च / कुष्माण्डगुडकोऽन्तःस्थितबीजे / परिव्राजको दण्डे। संत्रस्तो नकुलः सर्प। कियद् वा शक्यते निदर्शयितुम् ? एतावत्तूच्यतेयद् येनाविनाभूतं दृश्यते तत्तत्र प्रतिबद्धम् / तस्य च लिङ्गम् / अत एव त्रीण्येव लिङ्गानीति संख्यानियमोऽप्ययुक्तः / केवलं लिङ्गस्य रूपाण्येव वक्तव्यानि। यद्दर्शनात् हेतुत्वमवसीयत इति / नैष दोषः / अमीषां मध्ये येषां प्रतिबन्धोऽस्ति तेषां तादात्म्यतदुत्पत्त्योरन्यतरसम्भवाद् , येषु च तदभावस्तेषामप्रतिबन्धादगमकत्वात् / तथाहि वृक्षस्य छायायामेकसामग्र्यधीनतयैव प्रतिबन्धः / ततस्तत्प्रतिपत्तिः कार्यलिङ्गजैव। छाया हि प्रतिभासमानरूपसंस्थानवती शैत्याद्यर्थक्रियाकारिणी- वस्त्वेव, न त्वेवालोकाभावः / सा च पूर्वस्मादालोकोपादानात् पूर्ववृक्षक्षणाद् वृक्षक्षणेन सार्धमुत्पद्यते / तथाऽर्वाग्भागनमनावनमने अपि तुलायाः परभागोनमनाघनमनाभ्यमेव समं पुरुषप्रयत्नादेव तथाविधात्तपादानसह[47a]कारिण उत्पद्यते / तथाऽर्वाग्भागपरभागयोरसरूपयोरप्येकसामग्रयधीनतव / पाणिस्त्वप्रतिबद्ध एव, व्यङ्गस्यापि सम्भवात् / अव्यभिचारे चैकसंसर्गाधीनतव निबन्धनम् / तादृशं च जलमाधारस्य कार्यमेव, . तादृशी च बलाका सलिलस्य / नदीपूरोऽपि तथाविध उपरिवृष्टेः / दृश्यादृश्यसमुदायश्च यथायोगं सर्वत्र धर्मी कर्तव्यः / नदीपूरे चान्योऽपि प्रकारो वक्तुं शक्यः / नदी धर्मिणी। उपरिवृष्टिमद्देशसंबन्धित्वमस्याः साध्यम् / तथाविधपूरत्वमात्रं हेतुः / एवं चन्द्रोदयसमद्रवद्धिकमदविकाशा(सा)नामप्येकसामग्रयधीनतव / एकस्मादेव महाभूतविशेषात् कालव्यवहारविषयादेतदुत्पादापेक्षिणस्तेषामुत्पादात् / तथा य एव कृत्तिकोदयहेतुमहाभूतविशेषः कालसंज्ञितः स एव कतिपयकालव्यवधानेन रोहिण्युदयहेतुरिति तद्दर्शनाद् हेतोस्तज्जननयोग्यताधर्मोऽनमीयते एव / तथा पिपीलिकोत्सरणस्य मत्स्यविकारस्य च यो हेतुः स एव कतिपयकालव्यवधानेन वर्षकरणयोग्यस्ततः पूर्ववद् हेतुधर्मानुमानम्, रूपरसयोरिवकसामग्र्यधीनतयैव वा तत्समकालिकवर्षणानुमानम् / तदा त्वश्रवणीयबहिःस्थितशब्दगर्भगृहादिव्यवस्थितोऽनुमाता प्रत्येतव्यः। तथा शरदादिजलप्रसादोऽगस्त्योदयस्य कार्यमेव। अथ जलप्रसादं दृष्ट्वोदेष्यतीत्यनुमीयते। तदा तस्मादेव महाभूतात्कालसंज्ञिताज्जलप्रसादः। स