________________ [2.23. द्वितीयः स्वार्थानुमानपरिच्छेदः / कस्मानिमित्तद्वयात् स्वभावप्रतिबन्धो लिङ्गस्य नान्यस्मादित्याह- .. अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् // 23 // अतत्स्वभावस्येति / स स्वभावोऽस्य' सोऽयं तत्स्वभावः। न तत्स्वभावोऽतत्स्वभावः। तस्मादुत्पत्तिरस्य सोऽयं तदुत्पत्तिः। न तथाऽतदुत्पत्तिः / यो यत्स्वभावो यदुत्पत्तिश्च न भवति तस्य अतत्स्वभावस्य, अतदुत्पत्तश्च। तत्र अतत्स्वभावे अनुत्पादके चाप्रतिबदः स्वभावोऽस्येति 'सोऽयमप्रतिबद्धस्वभावः। तस्य भावोऽप्रतिबद्धस्वभावत्वम् / तस्मादप्रतिबद्धस्वभावत्वात् / यद्यतत्स्वभावेऽनुत्पादके च कश्चित् प्रतिबद्धस्वभावो भवेद्, भवेदन्यतोऽपि निमित्तात्' स्वभावप्रतिबन्धः / प्रतिबद्धस्वभावत्वं हि स्वभावप्रतिबन्धः। न चान्यः कश्चिवायत्तस्वभावः। तस्मात तादात्म्यतत्पत्तिभ्यामेव स्वभावप्रतिबन्धः // इति तदपेक्षः। इदं साधनमिदं साध्यमिति साध्यसाधनरूपो भेदो नानात्वमित्यर्थः। यदि नाम कल्पनानिर्मितो भेदस्तथापि कथं गम्यगमकभाव इत्याह-निश्चयेति / हिर्यस्मात् / निश्चयापेक्ष इति निश्चयविषयीकृतरूपापेक्ष इत्यर्थः। यत एवं ततस्तस्मात्तयोः साध्यसाधनयोभेंदो नानात्वं युक्त्या संगतो युक्तः। वस्तुनोऽकृत्रिमाद् रूपादागतो वास्तवः। स्यान्मतम्-भेदेन कल्पितयोर्न तादात्म्यं गम्यगमकभावनिबन्धनमस्ति। वास्तवेन च रूपेणैकत्वान्न गम्यगमकभाव इति कथं स्वभावहेतोर्गमकत्वम् ? नाहेतुत्वं यद्दर्शनद्वारायातावेतो धर्मी तथा प्रतीयमानौ तत् तावत्परमार्थतस्तदात्मकमित्येकस्य धर्मस्य धर्मान्तराव्यभिचारः / वास्तवं तादात्म्यगतं च यस्य गमकत्वं स स्वभावहेतुरुच्यत इति को विरोधः ? अयं प्रकरणार्थः-न निश्चयस्थे समारोपिते रूपे समारोपितत्वेनाध्यवसीयमाने गम्यगमके किन्तु स्वलक्षणत्वेनाध्यवसीयमाने तत्र तादात्म्यमस्ति / एतदुक्तं भवति-आरोप्यमाणं रूपमारोपितभेद[46b]म् / आरोपितसदृशं च स्वलक्षणम् / तेनारोपितेन रूपेणानुगम्यनानं भिन्नमध्यवसीयते / तदवध्यवसितभेदनिबन्धनो गम्यगमकभावस्तस्य स्वतश्च तादात्म्यमिति / द्वितीयं प्रतिबन्धकारणं व्याख्यातुमाह-न केवलादिति / चः साधारणं निमित्तं समुच्चिनोति // ननु च समवायादितोऽपि निमित्तात्प्रतिबन्धो नासम्भवी / तत्कथं तादात्म्यात्तदुत्पत्तेरेव च स उच्यते इत्यभिप्रायवान् पृच्छति-कस्मादिति / अन्यनिमित्तस्यानभिधानानिमित्तद्वयादित्याह। अतत्स्वभावस्येत्यादि ब्रुवतश्चाचार्यस्यायमाशयः-भवेदेवान्यतः सम्बन्धात्प्रतिबन्धो . भावो यस्य सोD. भावो यस्येति सो C.. 2 असाध्य(ध्येऽ)कारणे च-टि० / ति अप्रति०D. 4 तस्य भावस्तस्मात्-D.C. 5 संयोगसमवायादेः-टि० - निमित्तत्वात् स्व. C. . . . . संयोग्यादि:-टि.