________________ 2. 22.] प्रतिबन्धनिरूपणम् / 113 कस्मात् पुनः स्वभावप्रतिबन्धो 'लिङ्गस्येत्याह 'वस्तुतस्तादात्म्यात् तदुत्पत्तश्च // 22 // वस्तुत इत्यादि। स साध्योऽर्थ आत्मा स्वभावो यस्य तत् तदात्मा" / तस्य भावस्तादात्म्यम् / तस्मादेतोः / यतः साध्यस्वभावं साधनं तस्मात् तत्र स्वभावप्रतिबन्ध इत्यर्थः / यदि साध्यस्वभावं साधनं साध्यसाधनयोरभेदात् प्रतिज्ञार्थंकदेशो हेतुः स्यादित्याह वस्तुत इति / परमार्थसता रूपेणाऽभेवस्तयोः। विकल्पविषयस्तु यत् समारोपितं रूपम् / तदपेक्षः साध्यसाधनभेदः / ९निश्चयापेक्ष' एव हि गम्यगमकभावः / ततो निश्चयारूढरूपापेक्ष एव तयोर्भेदो युक्तः वास्तवस्त्वभेद इति / न केवलात्' तादात्म्यादपि तु ततः साध्यावर्थाद् उत्पत्तिलिङ्गस्य-तदुत्पत्तेश्च साध्येऽर्थे स्वभावप्रतिबन्धो लिङ्गस्य / स्यादेतत्तादात्म्यं तावत्तयोरस्ति / तत्कि प्रतिबद्धत्वप्रतिबन्धविषयत्वनिश्चयेन गम्यगमकत्वव्यवस्थानिबन्धनीकृतेनेत्याह-निश्चयेति। हीति यस्मात / तदपेक्षायामपि किमिति प्रयत्नानन्तरीयकत्वमेव गमकमित्याह-प्रयत्नेति / चो यस्मादर्थे / यतस्तत्स्वभावं निश्चितमतोऽस्मात्तदेवानित्यत्वे प्रतिबद्धमुच्यत इति शेषः। यतस्तादात्म्याबिशेषेऽपि यत्प्रतिबद्धतया निश्चितं तदेव गमकमितरद् गम्यं तस्मानियतः प्रतिनियतः प्रयत्नानन्तरीयकमेव गमकम् , अनित्यत्वं च गम्यमेवेत्येवंरूपो विषयो यस्य गम्यगमकभावस्य स तथा / एतदेव व्यतिरेकमुखेण द्रढयति नान्यथेति // ननु च य एकस्यान्यत्र प्रतिबन्धस्तदायत्तत्वं स तावन्नाहेतुकः। कश्चासौ हेतुरित्यभिप्रेत्य प्रश्नयति-कस्मादिति। निमित्तप्रश्नश्चषः / तादात्म्यादिति मौलमुत्तरं व्याख्यातुमाह-यत इति / तत्र साध्ये स्वभावेन प्रतिबन्धः प्रतिबद्धत्वं लिङ्गस्येति शेषः / प्रतिज्ञा साध्यनिर्देशः। तस्या अर्थो धर्मधर्मिसमुदायः। अत्र च साध्यसाधनयोरैकास्म्यस्य प्रस्तुतत्वात्साध्यलक्षणस्य प्रतिज्ञार्थस्य हेतुत्वमासक्तम् / ततश्च साध्यधर्मवत्साधनधर्मस्याप्यसिद्धिः। सिद्धौ वा हेतुवैयर्थ्यमिति भावः / यदि परमार्थतोऽभेदः। कथं तर्हि भेदनिबन्धनो गम्यगमकभाव इत्याह-विकल्पेति / तुः पारमार्थिकादभेदाद् वैधर्म्यमाह / कोऽसौ विकल्पविषयः ? यदि बाह्यस्तदा तदवस्थो दोष इत्याह-यदिति / तमपेक्षत 'लिङ्गस्य न वस्तुन इत्याह-B. D. H. लिङ्गस्य साध्येनेत्याह N. 'वस्तुनः P. 3 तादात्म्यात्साध्यार्थादुत्प. B. P.H. E.N. " स साध्यः स्वभावो-B. ऽर्थस्वभाव आत्मा यस्य D. 5 तदात्म-C.D. 6 तादात्म्यं तत्स्वभावत्वम् तस्मा० B तत् तत्र B.N. H. प्रतिबद्धमित्यर्थः-A. B. P. H. E. N. विकल्प-टि. 10 निश्चयापेक्षया-B.C. D. "केवलं तादा० A. B.D.P.H. E.N. .