________________ 112 द्वितीयः स्वार्थानुमानपरिच्छेदः / [2. 21. सचेति / स च स्वभावप्रतिबन्धो लिङ्गस्य साध्येऽर्थे / लिङ्ग परायत्तत्वात प्रतिबद्धम्। साध्यस्त्वर्थोऽपरायत्तत्वात् प्रतिबन्धविषयो न 'तु प्रतिबद्ध इत्यर्थः। तत्रायमर्थः तादात्म्यविशेषेपि यत् प्रतिबद्धं तद् गमकम् / यत् प्रतिबन्धविषयः तद् गम्यम् / यस्य च धर्मस्य यो नियतः स्वभावः स तत्प्रतिबद्धः। यथा प्रयत्नानन्तरीयकत्वाख्योऽनित्यत्वे / यस्य तु स चान्यश्च स्वभावः स प्रतिबन्धविषयः, न तु प्रतिबद्धः / यथाऽनित्यत्वाल्यः प्रयत्नानन्तरीयकत्वाख्य। निश्चयापेक्षो हि गम्यगमकभावः। प्रयत्नानन्तरीयकत्वमेव चानित्यत्वस्वभावं निश्चितम् / अतस्तदेव अनित्यत्वे प्रतिबद्धम्। तस्मानियतविषय एवं गम्यगमकभावः नान्यथेति // ननु भिन्नयोर्गम्यगमकभावे लिङ्गं तदुत्पत्त्या परायत्तत्वात्प्रतिबद्धम् / साध्यस्त्वपरायत्तत्वात्प्रतिबन्धविषयः / तदाश्रयश्च साध्यसाधनभावनियमः स्यात् / स्वभावयोस्तु तदभावे हेतोस्तादात्म्यप्रतिबद्धत्वम् / तादात्म्यं चोभयोरविशिष्टम् / ततः प्रतिबद्धत्वं प्रतिबन्धविषयत्वं वा द्वयोरविशिष्टमायाति / तदाश्रयश्च नियतः साध्यसाधनभावः प्रसंक्त इत्याहतत्रायमर्थ इति / न केवलमर्थान्तरत्व इत्यपिशब्दः / यत्प्रतिबद्धमिति यत्साध्यप्रतिबद्धतया तदायत्ततया निश्चितमिति द्रष्टव्यम् / प्रतिबन्धविषयोऽपि तत्त्वेन निश्चितो द्रष्टव्यः / ननु तादात्म्याविशेषादेकस्तत्र प्रतिबन्धविषयतया न तु प्रतिबद्धतयेत्ययमेव विभागः कुत इत्याह-यस्येति / यद्वा तादात्म्यानुभाविनि द्वये किन्तत्र प्रतिबद्धं यद् गमकं किञ्च प्रतिबन्धविषयो यद् गम्यमित्यजानन्तं प्रत्याह-यस्येति / चो हेतौ द्वितीयपक्षेवधारणे / यस्य धर्मस्य व्यावृत्तिकल्पितस्य यो नियतः प्रतिनियतः स एव स्वभावों न तदन्योऽपि / स इति : यस्येति षष्ठ्यन्तेनोक्तः परामृष्टः / तदिति य इति प्रथमान्तेनोक्त: प्रत्यवमृष्टस्तस्मिन् प्रतिबद्ध इति विग्रहः / निश्चीयत इति शेषः। प्रकरणलभ्यं वा। कः पुनरीदृश इत्याह-यथेति / प्रयत्नः पुरुषव्यापारस्तस्यानन्तरमव्यवधानम् / तत्र भव इति दिगादित्वाद् यत् / ततः स्वार्थे कन् / तस्य भावस्तत्त्वम् / तदाख्या नाम यस्य स तथा / प्रयत्नानन्तर्यकत्वस्य ह्यनित्यत्वमेव स्वभावो न तु नित्यत्वमपि / ततोऽनित्यत्वे प्रतिबद्धं निश्चीयते / ईदशस्य तावदियं गतिरन्यस्य तु का वार्तेत्याह-यस्येति / धर्मस्येत्यनुवृत्तेर्यस्येति धर्मस्य / तुर्विशिष्टं धर्म दर्शयति / स च सोऽपि प्रयत्नानन्तर्याख्योऽन्यश्चासश्च (चा)प्रयत्नानन्तरीयको वनकुसुमादिरपि / स प्रतिबन्धस्य साधनगतप्रतिबद्धत्वस्य विषयो गोचरः / एतदेव व्यतिरेकमुखेन द्रढयति-न विति। पुनरर्थे तुशब्दः / कोसावीदृश इत्याह-यथेति / अनित्यत्वाख्यः प्रयत्नानन्तर्यत्वाख्यन प्रतिबद्ध इति योज्यम् / एवञ्चार्थात्प्रतिबन्धविषये चेत्यव[46a] तिष्ठते। एतच्चानित्यत्वस्य तदतत्स्वभावत्वेनानियतस्वभावत्वमनित्यत्वसामान्याभिप्रायेणोक्तम् / अन्यथा घटादिगतानित्यत्वस्य प्रयत्नानन्तरीयकत्वमन्तरेण कुतोऽवस्थानम् / येनान्यस्वभावतयाऽस्यानियतत्वं स्यादिति / 2 लिङ्गम्-टि० 'न प्रतिब० A. B. D. P. H. E. N.. यन्नियतः A. B. C. D. P. H. E. N.