________________ 2.21.3 प्रतिबधनिरूपणम् / नियमाच गम्यममकभावः। न हि योग्यतया पदीपवत् परोक्षार्थप्रतिपत्तिनिमित्तमिष्टं लिङ्गम, अपि त्वव्यभिचारित्वेन निश्चितम् / ततः स्वभावप्रतिबन्धे 'सत्यविनाभाविस्व मिश्चयः, ततो गम्यगमकभावः। तस्मात् स्वभावप्रतिबन्धे सत्यर्थोऽथं गमयेन्नान्यथेति स्थितम् // ननु च परायत्तस्य प्रतिबन्धोऽपरायत्ते / तदिह साध्यसाधनयोः कस्य क्व प्रतिबन्ध इत्याह . स च प्रतिषन्धः साध्येऽर्थे लिङ्गस्य // 21 // प्रतिबन्ध इत्याकाङक्षायामाह-कार्यस्वभावयोस्तयोरेव प्रकृतत्वात् / अविशिष्टः साधारणः / द्वयोरपि कार्यस्वभावयोरतिशये सङग्रहः स्वीकारः / अयमेवातिशय इति भावः / साधनलक्षणोऽर्थः साध्यलक्षणमर्थं गमयेत् बोधयितुं शक्नोति / यत एवं तस्माद् अन्येषां तद्व्यतिरिक्तानम् / तेषां स्वभावप्रतिबन्धाभावात् / तदभावश्च तेषां तादात्म्यतंदुत्पत्त्यभावात् / तदन्यस्य च सम्बन्धस्याभावात् / तादात्म्यतदुत्पत्तिभावे च कार्यस्वभावयोरेवान्तरर्भाव इति भावः // तदित्यादिना समासं प्रदर्श्य तदप्रतिबद्धस्येति योजयता धर्मोत्तरेण मले तदप्रतिबद्धस्येति पाठो दर्शितः। दृश्यते च बहुशस्तदप्रतिबद्धस्वभावस्यति पाठः / तत्रापि पाठेतदप्रतिबद्धः साध्याप्रतिबद्धः स्वभावः स्वरूपं यस्य लिङ्गस्येति विग्रहः कार्यः / प्रतिबन्धः प्रतिबद्धत्वमायत्तत्वं यत्साधनस्य, तस्य विषयोऽव्यभिचारस्तेन विनाऽभवितृत्वम् / तस्य नियमोऽवस्य(श्य)न्ता। ननु तदप्रतिबद्धत्वेऽपि अद्यतन आदित्योदयोऽस्तमयमप्रतिबन्धविषयं न व्यभिचरतीत्याशायाह-सवयमर्थ इति / यत एवमुक्तम्, तत्तस्माक्यं तात्पर्यार्थः / आदित्योदयोऽपि हि भविष्यति / न च तदहरस्तमयः, महर्षिणाऽन्येन वा महधिना केनचित्तस्यास्तमयविबन्धसम्भवात् / तस्मादादित्यस्य' तस्मादस्तमययोग्यतैव साध्या-अयमा' दित्यादयोऽस्तमययोग्य उदयस्वात् / श्वस्तनोदयवदिति / संति चर्घ स्वभावहेतुत्वमस्यायातमिति भावः / ननु चाव्यभिचारमात्रेण प्रयोजनम्, तत्कि नियमेनेत्याह-अव्यभिचारेति। चोऽव..धारणे हेतौ वा / एतदेव कुत इत्याह-नहीति / [45b] हिर्यस्मात् / * प्रदीपो वैधर्म्य दृष्टान्तः / अपि तु किन्त्वव्यभिचारित्वेन साध्यस्य प्रकृतत्वात् साध्याविनाभावित्वेन निश्चितम्। नियमाभावे च कुतोऽव्यभिचारनिश्चय इत्यस्य तात्पर्यार्थः / निश्चीयतां तदव्यभिचारोऽन्येषामपि प्रतिबन्धस्तु कस्मान्मृग्यत इत्याह-तत इति / यतोऽवश्यमव्यभिचारी निश्चेतव्यस्ततस्तस्मात् / अन्यथाऽव्यभिचार एक न शक्यते निश्चेतुमित्यर्थादनेन दर्शितम् / एतावताऽपि कथं गमकत्वमित्याह-तत इति। ततो निश्चितादव्यभिचाराल्लिनास्य गमकत्वे सिद्धे साध्यस्यापि गमक (गम्य)त्वं सिद्धयतीति द्वयोरुपन्यासः / उक्तमर्थमुपसंहरन्नाह–तस्मादिति / अर्थो लिङ्गलक्षणः, अर्थ लिङ्गिलक्षणम् / / तत्तस्मादिहानुमानानुमेयचिन्तायां स्वभावप्रतिबन्धचिन्तायां वा। ' सत्यविनाभावनिश्चयः। A. P. H: E. N.